पृष्ठम्:चम्पूभारतम्.pdf/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
चम्पूभारते


जव भजन्तौ जयतर्षवन्तौ रुष वहन्तौ रुधिरं किरन्तौ ।
परस्पर तौ प[१]दुशब्दवन्तौ नियुद्धवन्तौ नितरामतान्तौ ॥ ७० ॥
अक्ष्वेलितारावमवीरवादमवीक्षकश्लाघनचाटुगुम्फम् ।
अनुच्चनिश्वासमहुक्रियाकमभूतपूर्व तदभून्नियुद्धम् ॥ ७१ ॥
 शिलीमुखैश्चित्तजचापजुष्टै-
  र्दत्तानि रन्ध्राणि दधन्निजाङ्गे ।
 समीरजातेन विधू[२]नितोऽपि
  स कीचको नैव चुकूज किचित् ॥ ७२ ॥


 जवमिति । तो भीमकीचकौ जव बलग भजन्तौ जये तर्पवन्तौ कामिनौ रष क्रोध वहन्तो रुधिर किरन्तौ क्षतेभ्य प्रसारयन्तों परस्पर पटव परषा शब्दा दारयामि मारयामीत्यादयोऽनयो सन्तीति तद्वन्तौ अतान्तौ अश्रान्तौ च सन्तौ नितरा नियुद्धवन्तौ । बाहुयुद्धशालिनौ बभूवतुरिति शेष । नियुद्धकैलिं निशि निमिमाते’ इति पाठोऽनुप्रासस्येकपादभङ्गारव्यदोषापत्ते वर्तमानार्थकलडन्तबाबाच्चोपेक्ष्य । एव ‘पट्टशौर्यवन्तौ’ इत्येव पाठ । अन्यथा ‘अक्ष्वेलितारावम्' इत्युत्तरश्लोकेन सदर्भविरोधापत्ते ॥ ७० ॥

 अक्ष्वेलितेति । न विद्यन्ते क्ष्वेलितारावा सिंहनादा यस्मिन् तथोक्तम् , अवीरवाद विगतात्मकत्थनम्, वीक्षकाणा प्रेक्षकाणा श्लाघनानि चाङ्गुम्फा प्रियवाक्यसदर्भाश्च न विद्यन्ते यस्मिन् तथोक्तम् । तदानी तद्देशस्य विजनत्वादिति भाव । अनुच्चा अनुद्धता निश्वासा यस्मिंस्तथोक्तम् , न विद्य ते हुक्रिया हुकारा यस्मिस्तत्कम् । शैषिक कप् । अतएव तत् भीमकीचकसबन्धि नियुद्ध बाहुयुद्ध पूर्व न भूत कदापि न जात अभूतपूर्व जगद्विलक्षण सत् अभूत् । अत्राक्ष्वेलितारावमित्याद्यनेकपदाथन तन्नियुद्धस्य जगद्वैलक्षण्यसमर्थनादनेकपदार्थहेतुक काव्यलिङ्गम् ॥ ७१ ॥

 शिलीमुखैरिति । चित्तजस्य मन्मथस्य चापे धनुषि पुष्पे च जुष्टै सहितै प्रीतैश्च शिलीमुखै बाणै अलिभिश्च। ‘अलिबाणौ शिलीमुखौ' इत्यमर । दत्तानि कृतानि रन्ध्राणि निजाङ्गे दधन्नपि समीरजातेन भीमेन वायुसमूहेन च विधूनित कम्पितोऽपि स कीचक वेणुविशेषश्च।‘वेणव कीचकास्ते स्युर्ये खनन्त्यनिलोद्धता’ इत्यमर । किचिदपि न चुकूज न दध्वानैव । ममारेत्यर्थ । अत्र शिलीमुखकृतरन्ध्रवायुजातधूननरूपसामग्रीसत्त्वे क्रूजनानुदयवर्णनात्मिकाया वि-


  1. ‘पटुशौर्यवन्तौ नियुद्धकेलिं निशि निर्मिमाते’ इति पाठ
  2. ‘सुधूनितोऽपि’ इति पाठ