तावदेषा चकितचकिता ‘हा हा नाथ नाथ, जगत्प्राणभूत, विपत्समयबन्धो, सप्रति कान्ता रसवती परिगृह्य मुग्धामिमा कथ न गणयसि’ इत्यु[१]ङ्चैररोदीत् ॥
तत्रास्या रुदितस्वनैरथ जवादाकारितो मारुति |
तावदिति । तावत् सद्य एव चकितचकिता अतिभीता एषा द्रौपदा । हा हेत्थतिखेदे । हे नाथ लोकरक्षक, जगत प्राणभूत जीवितरूप, विपत्समये बन्धो, क्रमेण हे प्रिय, जगत्प्राणाद्वायो भवतीति वायुपुत्र। ‘जगत्प्राणसमीरणा' इति वायुपर्यायेष्वमर । विपद जरसैन्धवकृताया समये बन्धो इति च । त्व सप्रति रसवतीं अनुरागिणी कान्ता प्रिया भाषारमागौरीरूपाम् । अन्यत्र कान्ता रुच्या रसवतीं मधुरादिषड्रसधारिणी पाकक्रियामिति च परिगृह्य परिरभ्य स्वीकृत्य च मुग्धा नवोढा मूच्छिता च इमा मा कथ न गणयसि नाद्रियसे इत्युक्तप्रकार उच्चे तार अरोदीत् रुरोद । रुदे कर्तरि लुइ। अत्र प्रस्तुतजगदीश्वरप्रार्थनया प्रस्तुतभीमप्रार्थनाद्योतनाप्रस्तुताङ्करालकार । ‘प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तु ताङ्कुर' इति लक्षणात् ॥
तत्रेति । अथ तत्र चिताया अस्या द्रौपद्या रुदितखनै रोदनध्वनिभि जवात् आकारित आहूत मारुति भीम सक्थ्यो (सक्लो ?) ऊर्वो सबन्धिन वायो गतिवेगजनितस्य बलात् ईषल्लमै अत्यल्प प्राप्यै । दुर्लभैरिति यावत् । अलातस्य हस्तधृताङ्गारकाष्ठस्य महसा तेजसा मीलनै शान्तिभि उपलक्षित । ऊरुवेगजनितवायुबलजाज्वल्यमानालाततेजोविशिष्ट सन्निति यावत् । द्विषा उपकीचकाना ओघ गण गारुडभित्ते मरकतकुड्यस्य भङ्गि रीति तस्या पिशुने सूचके । तद्वदतिनिबिडे श्यामे चेत्यर्थ । ध्वान्ते अन्धकारेऽपि ज्येष्ठस्य कीचकस्य अध्वनि मरणरूपे धावितु वेगाद्रन्तु दोदपै बाहुबलैरेव सिद्धाञ्जनै दिव्ये अप्रतिहते दृष्टी लोचने यस्य तथोक्त अकरोत् । कीचकमिव सर्वास्तदनुजानपि अवधीदित्यर्थ । रूपकोपमाससृष्टि । अत्र’ ‘सक्थ्योर्वायुबलादलातमहसा सधुक्षतानुक्षणम्’ इति पाठ । वायुबलात् अनुक्षण प्रतिक्षण सधु क्षता प्रज्वलता अलातमहसा उपलक्षित इति पूर्वस्मादनतिरिक्ताथक सुगम । यथाश्रुतपाठस्तु बहुषु मूलपुस्तकेषु दृष्टत्वात् क्लिष्टत्वदोषदुष्टत्वेऽपि व्याख्यात इति ध्येयम् । शार्दूलविक्रीडितम् ॥ ७६ ॥