पृष्ठम्:चम्पूभारतम्.pdf/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
चम्पूभारते


अत्रैव स्थित्या वेषान्तरकञ्चुकै प[१]ञ्चभिरकिचनैरेतैर्वञ्चित खलु वृद्धो विराट इत्यभिधाय सुयोधनो राधेयेन सह कृतहस्ततालो वल्गद्धुजशिरवरभुच्चैर्जहास ॥

तत ।

सक्षोभे नगरस्य मत्स्यनृपतेर्योद्धु स्वय निर्गता-
 न्दृष्टवा तानवकीर्णिनो वितनुमो गच्छाधुना त्व पुर ।
इत्युक्त कुरुभूभुजा सदसि गा इर्तु त्रिगर्तेश्वर-
 स्तस्यै[२]वाप पुरी दिनावधिरिवार्यम्ण प्रतीची दिशम् ॥ ८५ ॥

 तत्र क्कचिदरुणतया निमग्नजमदग्निकुमारोष्णनिश्वासवेगविलुलित[३]विचित्रवीचीप्रपञ्चमिव स्य[४]मन्तपञ्चकम्, क्कचिन्नीलतया मदक-


 अत्रेति । वेषान्तर अन्यो वेष सन्यासादि कञ्चुक आच्छादक येषा तै अतएव पञ्चभि एतै अफिचनै दरिद्रै पाण्डवै । अत्र अस्मिन्नेव मत्स्यनगरे स्थित्वा वृद्ध । मन्दप्रज्ञ इति यावत् । अत एव वञ्चित । खल्विति वाक्यालकारे इत्यभिवाय एवमुक्त्वा सुयोधन राधेयेन कर्णेन सह कृतहस्तताल सन् वल्गती उन्नमती भुनयो शिखरे अग्रभागौ यस्मिंस्तथा उच्चै तार जहास हसितवान् । अत्र वृद्वभावस्य विशेषणगत्या वञ्चनहेतुत्वात्काव्यलिङ्गभेद ॥ तत इत्युत्तरेणान्वय

 सक्षोभ इति । तत पाण्डवा विराटपुरे गूढ वसन्तीति हेतो मत्स्यनृपते नगरस्य विराट्पुरस्य सक्षोभे सति । अस्माभिरिति शेष स्वय योद्धु निर्गतान् । सह्ता आश्रयरक्ष्यापरतन्त्रत्वादिति भाव । तान् पाण्डवान् ध्ष्टवा अवकीणिन भग्नाज्ञातवास तनन । ‘अवकीर्णी क्षतव्रत' इत्यमर । वितनुम कुर्म । किच अधुना हे सुशर्मन, त्व पुर सर्व गच्छ। गवाहरण के भाव । इति उक्तप्रकार कुरभूभुजा दुर्योधनेन सदसि सभाय उक्त पुन नाम देशविशेष तस्येश्वर सुशर्मा तस्य विराटस्य गा धेनू हर्तु तस्येव भवता अर्यम्ण सूयस्य सबन्धी दिनावधि । सायकालिकगतिरित्यर्थ । विराटपुट र आप प्राप्तवान्। सुशर्मा तत्पुर सूर्य अस्त च अवापेत्यर्थ । आप्नमीची दिशामिव । अत्र सुशर्म दिनावध्यो प्राप्स्या सादृश्यगम्यत्वातुल्ययोगिताभे र्क्व शार्दूलविक्रीडितम् ॥ ८५ ॥

 तत्रेति । तत्र सायकाले क्वचित् एकत्र अरुणतया अरुणवर्णत्वेन निम ग्नस्य जमदग्निकुमारस्य परशुरामस्य उष्णानाम् क्षत्रियेषु कोपादिति भाव । निश्वासाना वेगेन विलुलिता प्रवृद्धा विचित्रा वीचीप्रपञ्चा तरङ्गपरम्परा


  1. 'पञ्चभि' इति नास्तिक्कचित्
  2. तत्र दक्षि णेन पुर व्यग्रतरसै येन काल्यमान कचित् ' इति पाठ
  3. 'विचित्र' इति नास्ति क्कइ
  4. 'शम त', 'स्यमन्तक' इति च पाठ