पृष्ठम्:चम्पूभारतम्.pdf/२८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
षष्ठ स्तबक ।


 तदनु [१]मुहुर्मुहुर्वललमेव केव[२]लमवलोकमाना बलशासनदिशायामोजायमानेन चन्द्रमसा [३]प्रसृताभिर्मदसहितकरिघटाविषाणाङ्गणप्रतिफलनशतगुणितधवलिमवीचिभिर्मरीचिभिर्दलितरणवि[४]मर्ददुर्दशाविराटस्य चमूरपि प्रतिनि[५]वर्तनहृष्यमाणगोधनवेगप्रभुतक्षीर[६]धारापातशीतलितसिकताया पदव्या पक्ष्मपङ्किनिलीनेन समरभूरेणुभारेण नयननिमीलनशिल्पकल्पितबहुसाहाय्यकमुद्रया [७]निद्रया ता यामिनींं [८]पश्चार्धसीमान प्रत्यवीवहत् ।

इत्यनन्तभट्टकविकृतौ चम्पूभारते षष्ट स्तबक ।


 तदन्विति । तदनु युद्धोपरमानन्तर सुशर्मगमनानन्तरमिति वा वलल भीममेव केवल मुख्य यथातथा मुहुमुहु अवलोमाना पश्यन्ती विराटस्य चसू सेनापि बलशासनस्य इन्द्रस्य दिशाया प्राच्याम् । ‘आप चैव हलन्तानाम्’ इति वागुयनुशासनादाकारान्तत्वम् । ओजायमानेन प्रकाशमानेन। ओज शब्दस्तद्वत्पर । चन्द्र मसा चन्द्रेण प्रसृताभि प्रकटिताभि मदसहिताया मदयुक्ताया करिघटाया गजवृन्दस्य विषाणयो दन्तयो अङ्गणेषु प्रदेशेषु प्रतिफलनै सक्रमणै शतगुणिता । शतशब्दोऽनेक्त्वपर , अन्यथा तत्रत्यगजविषाणाना शत्वेन निर्णायकाभावात् धावल्यपरम्परासु शतगुणितत्वोक्तौ हेत्वनुपन्यासेन निर्हेतुत्वदोषापत्तिरिति ध्येयम् । तथा च अनेकधा आत्रता इत्यर्थ ।धवलिम्न क्ष्वैत्यस्य वीचय परम्परा यासा ताभि मरीचिभि किरण दलिता निरस्ता रणे विमर्देन मिथ सघर्षेण या दुर्दशा दुरवस्था श्रमरूपा यस्यास्तथोक्ता सती प्रतिनिवर्तनेन सुशर्मावरोधात् प्रत्या गमनेन हृष्यमाणात् सतुष्यत गोवनात् वेगेन गमनत्वरया प्रस्नुताना क्षरिताना क्षीराणा धारापातै शीतलिता सजातशैत्या सिकता यस्या तथोक्ताया पदव्या मार्गे पक्ष्मणा नेत्रपुटलोम्ना पङ्क्तिषु निलीनेन सलग्नेन समरभुवि युद्धभूमौ रेणोधूले भारेण अतिशयेनैव भारेणेति श्लिष्टरूपकम् । नयनयोनिमीलनशिल्पे मुकुलनव्यापारे विषये कल्पिता बही साहाय्यमुद्रा सहायताकरण यस्यास्तया निद्रया उपलक्षिता ता यामिनीं युद्धरात्रि अपरोऽर्व पश्वार्ध उत्तरभाग । ‘अपरस्यार्धे पश्चभावो वक्तव्य’ इत्यपरशब्दस्य पश्चादेश । तस्य सीमान अन्तभाग प्रति अवीवहत् प्रापयामास । ता रात्रि गमयामासेत्यर्थ । णिजन्ताद्वहते कर्तरि


  1. ‘मुहूर्ते मुहुरविरल वळल्मेव’ इति पाठ
  2. ‘अवलोकमाना वलमाना' इति पाठ
  3. ‘प्रसृतैमदकरटिघटाविषाणाड्कुरप्रति’ इति पाठ
  4. ‘विमदभटक्ष्रमदुर्दशा । इति पाठ
  5. ‘निवतनवेगइर्षमाणगोधनपय प्रस्रवणधारा’ इति पाठ
  6. ‘निमीलनेन’ इति पाठ
  7. ‘लोचनयोर्निमीलन’ इति पाठ
  8. पाश्चात्यमीमानमत्यवी- वइत्' इति पाठ