पृष्ठम्:चम्पूभारतम्.pdf/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
चम्पूभारतेleft=२९०


दुण्डाघाते दीयमानेऽपि योधैर्दुग्ध भूयो दोहशेष वहन्त्य ।
घोषाद्रावो नि सरन्ति स्म यत्नाग्दोभ्यो घोषो यत्नलेश विनैव ॥ ३ ॥
इतस्तत सभ्रममीयुषीणा गोपाङ्गनाना कुचदर्शनेन ।
निषादपङ्क्तिर्निजहस्तिम[१] स्तके सृणि नि[२]धातु क्ष्लथपाणिरासीत् ॥ ४ ॥
भीमसेनमिषजा शमितो यो दक्षिणे झटिति म[३]त्स्यपुरस्य ।
उत्तरेऽप्युदभवत्स तु पार्क्ष्वे प[४]क्षवात इव कौरव[५]बाध ॥ ५ ॥


 एण्डेति । योधै दुर्योधनभटै दण्डै लगुडै आधाते ताडने दीयमाने कृते सत्यपि दोहात् शेष अवशिष्ट भूय बहुल दुग्ध क्षीर वहन्त्य । ऊध स्खिति भाव । अतएव गाव यत्नात् । अतिकष्टादित्यर्थ । घोषात् गोपपल्लया नि सरन्ति स्म निर्जग्मु । घोष गोपपल्लीषु सक्षोभजनितहुकारावस्त्विति च (?)। ‘घोष सकुलनिध्वानगोपालाभीरपल्लिषु' इति विश्व । यत्नलेश अल्पमपि यत्न विनव नि सरन्ति स्म । जाता इत्यर्थ । अत्र घोषाद्रोनि सरणमान्द्यस्य दोहावशिष्टबहुलक्षीरधारणेन समर्थनात्पदाथहेतुक काव्यलिङ्गम् । एवमुत्तरवाक्यार्थे यत्न रूप कारण विनैव घोषनि सरणरूपकार्यवर्णनाद्विभावनालकार । अय च गोकुलसङ्कलारावयो घोषशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । अस्य च पूर्ववाक्यार्थकाव्यलिङ्गस्य च स्फुटावगम्यवैलक्षण्यात्ससृष्टि ॥ ३ ॥

 इतस्तत इति । इतस्तत परित सश्रम भयेन भ्रम ईयुषीणा प्राप्ताना गोपाङ्गनाना कुचयो दर्शनेन हेतुना । निषादिना गजयन्तृणा पटिक्त निजाना इस्तिना गजना मस्तके मूध्रि । कुम्भद्वय इति यावत् । सृणि अङ्कुश निधातु श्लथौ निर्व्यापारौ पाणी हस्तो यस्यास्तयोक्ता आसीत् । गजकुम्भयो द्वित्वैकवृत्तित्वपीनत्वादिगुणसपतिकृतगोपाङ्गनाकुचभ्रमान्निषादिन नखोचितयोरनयो नाङ्कश पात्य इत्यालोच्य त तत्र परिजहुरित्यर्थ । अतएवोक्तभ्रान्तेविशेषणगत्या अङ्कुशप्रहारत्यागहेतुत्वात्पदार्थहेतुक काव्यलिङ्ग भ्रान्तिमदुज्जीवितमिति तयोरङ्गाङ्गिभावेन सफर ॥ ४ ॥

 भीमेति । मत्स्यपुरस्य दक्षिणे देशे सव्येतरपक्षे च य कौरवबाध गोग्रहणरूप । भीमसेनेनैव भिषजा वैधेन झटिति सत्वर शमित निवारित चिकि त्सितश्च स तु कौरवबाध पक्षवात वायुरोगविशेष इव मत्स्यपुरस्य उत्तरे पर्क्षेsपि सव्ये पक्षेऽपि उदभवत् आविर्बभूव । एकस्मिन् पक्षे शान्तस्य पक्षवायो परस्मिन् उदय प्रसिद्ध । उपमालकार । स्वागता ॥ ५ ॥


  1. ‘भस्ते’ इति पाठ
  2. 'विधातु' इति पाठ
  3. ‘तस्य पुरस्य’ इति पाठ
  4. ‘पक्षघात' इति पाठ
  5. ‘वेध ’ इति पाठ