पृष्ठम्:चम्पूभारतम्.pdf/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
चम्पूभारते


[१]अकर्तृकाण्यध वशे कुरूणा
 पाण्डुस्नुषाया वसनानि सन्ति ।
आहृत्य नस्तानि दिशेति कन्या-
 स्तमभ्ययाचन्त कुतूहलिन्य ॥ १५ ॥

 तत्क्षण यातायातसरभसराजलेखवाहमुखश्रुत[२]बललभुजावलेपवृत्तान्तमोदमानसूदकुल [३]वीरपत्नीत्ववीरजननीत्वयुगपत्प्रसिद्धेर्वैजननो बासरोऽयमिति कात्यायनीजनसस्तूयमानसुदेष्ण मस्तकतलविन्यस्त[४]हस्तप्रवृद्धबल्लवया[५]षिदभययोचनावचनप्रतिशब्ददानद-


 अकर्तृकाणीति । न विद्यते कर्ता तन्तुवाय येषा तानि । ‘नधृतश्च’ इति कप् । तेषा भगवत्कारुण्येन खयमेवोत्पन्नत्वादिति भाव । पाण्डो स्नुषया द्रौपद्या वसनानि दु शासनापहृतवस्त्राणि अद्य कुरूणा वशे सन्ति तानि वत्राणि आहृत्य न अस्मभ्य दिश प्रतियच्छ । इत्युक्तप्रकार कन्या उत्तराद्या कुतूहूलिन्य अपूर्ववत्रकौतूहलवत्य सत्य । त युद्धसनद्धमुत्तर अभ्ययाचन्त याचितवत्य ॥ १५ ॥

 तदिति । तस्मिनेव क्षणे तत्क्षण उत्तरयात्राक्षण एव तत्पुर बिराटनगर यातायातयो गतप्रत्यागतयो रभसेन वेगेन सहिताना सरभसाना राज्ञ विराटस्य सबन्धिना लेखवाहना पत्रिकानेतृणा मुखै वचनै श्रुतेन शतेन बललस्य भीमस्य भुजयो अवलेपस्य गर्वस्य । पराक्रमस्येति यावत् । वृत्तान्तेन मोदमान सतुष्यत् सूदकुल पाचकवृन्द यस्मिन् तथोक्तम् । अय वासर वीरपत्नीलस्य वीरजननीत्वस्य च द्वयो युगपत् ऐककालिकाया प्रसिद्धे कीत वैजनन प्रसूतिदिवस इत्युक्तप्रकारेण कात्यायनीजनेन सम्यक्स्तूयमाना सुदेष्णा यस्मिस्तथोक्तम् । दक्षिणे गोग्रहे विराटस्येव उत्तरस्य उत्तरेऽपि ताभि जयसभावनादिति भाव । ‘कात्यायन्यशृऋद्धा या काषायवसनाधवा’ इत्यमर । मस्तकतले शिरसि विन्यस्तौ प्रणामार्थे निहितौ हस्तौ याभिस्तासा प्रवृद्धाना बल्लवयोषिता गोपाङ्गनाना सबन्धिना अभयस्य याचनावचनाना प्रार्थनावाक्याना प्रतिशब्ददाने प्रत्युत्तरदाने प्रतिध्वनिदाने च दक्षै समर्थै गवाक्षैरेव गवाक्षमात्रै उपल-


  1. ‘अकृत्रिमाणि’ इति पाठ
  2. ‘बल्ल्वभुजलतालावलेप’ इति पाठ
  3. “वीरपन्तीवीरजननीति तव’ इति पाठ
  4. इस्तपछवतल्लजवृद्ध” इति पाठ
  5. 'याच्ञा’ इति पाठ