पृष्ठम्:चम्पूभारतम्.pdf/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
चम्पूभारते


अथ रथादवपलुत्य पुर प्रति पलायमानोऽयमुत्तर पश्चानुधाठय कचेषु गृहीतवते फल्गुनाय फल्गुना कण्ठरवेण प्राक्तनचित्रमिव प्रमुषितार्धवर्ण व[१]च एवमवादीत् ॥

कि चा चिकीर्षुरसि हन्त वृहन्नले त्व-
 मक्ष्णोर्न मान्ति कुरुराजबलान्यमूनि ।
सद्यो निवर्तय रथ समरेच्छयाल
 नेष्याम्यह निजगृहेष्ववशेषमायु ॥ २३ ॥
गा कालयन्तु सह वत्सकुलैरशेषै-
 र्धोषान्हन्तु कुरव प्रहरन्तु गोपान् ।
मह्य पलायनमहोत्सवमेव देहि
 प्राणेषु किचिदपि मे गुरुता न वेत्सि ॥ २४ ॥


 अथेति । अथ भयविकारानन्तर रथात् अवपलुत्य लङ्धित्वा पुर निज प्रति पलायमान अय उत्तर पश्चात् पृष्ठत अनुवाव्य । उत्तरस्याभिमुख धावने शत्रुभ्य स्खपृष्ठप्रदर्शनापत्तेरिति भाव । कचेषु केशेषु गृहीतवते । आत्मानमिति शेष । फल्गुनाय अर्जुनाय फल्गुना नि सारेण कण्ठस्य रवेण । हीनखरेणेति यावत् । ‘वाच्यवत्फल्ग्वसार च' इति शब्दार्णवे । प्रमुषितानि अस्फुटानि अर्धवर्णानि शब्दार्धभागा यस्मिन् तथोक्तम् । अर्धप्रमृष्टनीलपीतादिवर्णक च । अतएव प्राक्तन पुरातन चित्र आलेख्यमिव स्थित वच वाक्य एव वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् । क्ष्लिष्टविशेषणेयमुपमा । सरूपोपमेति दण्डथनुयायिन ॥

 किमिति। हे बृहन्नले, त्व किंवा प्राणापहारि कृत्य चिकीर्षु कर्तुमिच्छुरसि । इन्तेति खेदे । अमूनि पुरोवतीनि कुरुराजस्य कुरुराजस्य दुर्योधनस्य बलानि चतुरङ्गाणि अक्ष्णो । वीक्षणस्येत्यर्थ । न मान्ति न मिलन्ति । अपारत्वादिति भाव । रथ सद्य इदानीमेव निवर्तय पुराभिमुख कुरु । समरेच्छया युद्धवाञ्छया अल वर्याप्तम् अवशेष गतावशिष्ट आयु निजगृहेष्वेव नेष्यामि गमयिष्यामि । युद्धाज्जीवितनाशो मम मा भूदित्यर्थ ॥ २३ ॥

 गा इति । कुरव दुर्योवनादय गा धेनू अशेषै वत्साना कुलै मृन्दै सह कालयन्तु नयन्तु । घोषान् गोपल्ली दहन्तु । गोपान् प्रहरन्तु । हे बृह न्नले, त्व मह्य पलायनमेव महोत्सवमेव देहि । मे मम प्राणेषु विषये गुरुता गौरव किंचित् ईषन्मात्रमपि न वेत्सि न जानासीत्याशोक्ति । पश्वादिभ्य प्राण एव मे गरीयानित्यर्थ ।‘आयुष क्षण एकोऽपि खर्णकोव्था न लभ्यते’ इति उक्तत्वादिति भाव ॥ २४ ॥


  1. ‘वचनम्' इति पाठ