इत्याश्वास्य पितृवनाटवीतमुपेत्य शमीविटपिकोटिसमाटीकितकिरीटशङ्कचापनिषङ्गो जयलक्ष्मीपरिणयनयोग्यता सपादयितुमिव खण्डितषण्ढभावोऽयमाखण्डलसुतो निजत [१]त्त्वव्याकरणशतधापल्लवितधाष्टर्येन तेनैव सुदेष्णापत्येन परिकल्पितसार[२]र्थ्यशिल्प
रथम[३]धिरुह्य क्षणेन वारिनिधिपूरस्य वाडववह्निरिव सपत्नसैन्यस्य
समुखीन बभूव ॥
|
इतीति । इत्युक्तप्रकारेणाश्वास्य विशोक कृत्वा । तमिति शेष । उत्तरमित्यर्थ । पितृवनस्य श्मशानस्य सबन्धि अटवीतट अरण्यप्रदेश उपेत्य शमी विटपिन शमीवृक्षस्य कोटे अग्रात् समाटीकिता समानीता किरीट इन्द्रदत्त , शङ्ख् देवदत्त , चाप गाण्डीव , निषङ्गौ अक्षयतूणीरौ, ते सर्वे येन तथोक्त। जयलक्ष्म्या परिणयनस्य पाणिग्रहणस्य योग्यता सपादयितुमिवेत्युत्प्रेक्षा । खण्डित त्यक्त षण्ढभाव नपुसकत्व येन स । अय आखण्डलसुत अर्जुन । निजस्य तत्त्वस्य स्वरूपस्य पाण्डवत्वादे व्याकरणेन विवरणेन हेतुना शतबा शतप्रकार पल्लवित उत्पन्न धाष्टय धृष्टत्वम् । धैर्यमिति यावत् । तत् यस्य तथोक्तेन तेनैव य प्रथम रथिकस्तेनैव । यस्तथा भीतस्तेनैवेति वार्थ । सुदेष्णापत्येन उत्तरेण परिकल्पित सारथ्यशिल्प सारथिव्यापार यस्मिंस्त रथमधिरुह्य क्षणेन सपत्नसैन्यस्य शत्रुबलस्य वाडववहि बाडवानल वारिधिपूरस्य समुदप्रवाहस्येव समुखीन अभिमुख वर्तमान बभूव । उपमोत्प्रेक्षयो ससृष्टि ॥
सख्येति । सव्यसाची अर्जुन । सख्यामत्येतीति सरयातीत असख्येय तत कौरवबल पुर अग्रे अवेक्ष्य तादृशि । शभोरपि शिरसि व्रणदायक इत्यर्थं । चापे गाण्डीवे साचीभवन्तीं तिर्यक्प्रसरन्तीं दृश इष्टिं किचित् ईषदेव । न तु पूर्णमत्यर्थ । विदधे अकरोत् । असख्येयमपि परबल मम गाण्डीवस्य क्रियान् विषय इतीषदालोकनाभिप्राय । अतएव परिकरालकार । तादृशीत्युक्तप्रभाव प्रपञ्चयति-पार्वत्येति । पार्वत्या गौर्या स्नेहयो घृतस्य प्रेम्णश्च द्वयेनार्द्रं निजस्य पद्मवस्त्रस्य शकल खण्ड स्वयमात्मना न्यस्य न्यस्य निक्षिप्य निक्षिप्य । आदराद्विरुक्ति । न त्वन्येन न्यासयित्वेत्यर्थ । चिकित्सित प्रतिकृत व्रण यस्मि-