पृष्ठम्:चम्पूभारतम्.pdf/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
चम्पूभारते


कर्णे केति गवेषणस्य विषये गान्धारनाथे पुन-
 नैिर्गन्तु धृतदिग्भ्रमे वि [१]कलितच्छत्रेऽपि दुर्योधने ।
द्रोणेऽपि क्षपितध्वजे कृतधनुर्भद्रेऽपि तस्यात्मजे
 मूछले सरित सुतेऽपि युधि सा भ[२]म्लौ कुरूणा चमू ॥ ४८ ॥

वीणामुनीन्द्रो विजयस्य युद्ध नीरन्ध्रभावेन निरीक्षमाण ।
आनन्दजैरश्रुभिरेव चक्रे हस्तार्पितैराङ्गिककृत्यमभ्रे ॥ ४९ ॥
विस्मयार्णवविभावरीविभु वीक्ष्य वीक्ष्य विजयस्य विक्रमम् ।
उत्तमाङ्गमखिलाप्सरोगणैरुर्वशीनभसि साप्यकम्पयत् ॥ ५० ॥


 कर्णेति । तत युधि युद्धदेशे । इद सर्वत्र योज्यम् । कर्णे राधेये च कुत्रास्त इत्युक्तप्रकारस्य गवेषणस्य अन्वेषणस्य विषये पात्रे । पलायिते सतीति यावत् । गान्धारनाथे पुन शकुनौ तु निर्गन्तु अन्यत्र यातु धृत दिशा भ्रम प्राच्यादे प्रतीच्यादिज्ञान येन तथोक्ते सति । दुर्योधनेऽपि विकलित छिन्न छत्र यस्य तथोक्ते सति । द्रोणेऽपि क्षपित नाशित ध्वज यस्य तथोक्ते सति । तस्य द्रोणस्य आत्मजे अश्वत्थाम्नयपि कृत धनुष भङ्ग भेद यस्य तथोक्ते सति । सारित गङ्गाया सुते भीष्मेऽपि मूच्छास्यास्तीति मूच्छले साति । सा कुरूणा चमू सेना मम्लौ म्लानाभूत् । अत्र पलायनाद्यनेकक्रियायौगपद्यात्समुचयालकार । शादूलविक्रीडितम् ॥ ४८ ॥

 वीणेति । वीणाप्रियो मुनीन्द्र वीणामुनीन्द्र नारद । शकपाथिवादित्वात्समास । विजयस्य अजुनस्य युद्ध नीरन्ध्रभावेन अविच्छेदभावेन निरीक्षमाण पश्यन् सन् अभ्रे आकाशे हस्तयोरर्पितै । हस्ताभ्या गृहीतैरित्यर्थ । आनन्दाज्जातै आनन्दजै अश्रुभि बाष्पजलैरेव । अहिभव आहिक कृत्य मध्याह्नानसध्यावन्दनादिकार्य चक्रे । असबन्धे सबन्धरूपातिशयोक्ति । इन्द्रवज्रा ॥ ४९ ॥

 विस्मयेति । विस्मय आश्चर्यमेव अर्णव समुद्र तस्य विभावरीविभु चन्द्रम् । इति परम्परितरूपकम् । अत्याश्चर्यप्रवर्धकमित्यर्थ । विजयस्य अजु नस्य विक्रम वीक्ष्य वीक्ष्य । आदरात् द्विरुक्ति । सा मनोरथभङ्गात् द्वेषित्वेन प्रसिद्धा उर्वश्यपि अखिलाना अप्सरसा गणै सह उत्तमाङ्ग शिर अकम्पयत् । क्ष्लाघयामासेत्यर्थ । अत्र अपिशब्दसूच्यतादृक्प्रद्वेषवत्या उर्वश्यापि श्लाघने किमुतान्यैरित्यर्थान्तराक्षेपादर्थापत्यलकार । रथोद्धता ॥ ७० ॥


  1. ‘शकलित ’, ‘विगक्तित इति च पाठ
  2. 'मम्ले' इति पाठ