पृष्ठम्:चम्पूभारतम्.pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
सप्तम स्तबक ।


वपुरस्रसात्कृतबता सुभटाना
 वरणस्रजे विबुधवारवधूभ्य ।
कुसुमात्यये किसलयान्यपि दत्वा
 क्षुपतामवाप कुलिशायुधशाखी ॥ ५१ ॥
बाहवो प्रवृष्टकुसुमस्य ततो निलिम्पै[१]
 प्रस्वापनास्त्रमहिमातिशयेन तस्य ।
निद्रायते स्म निखिळा पृतना रिपूणा
 युद्धावतीर्णमपनेतुमिव श्रम स्वम् ॥ ५२ ॥

 [२]तत स बीभत्सु परिषत्समानीतव[३]धूपरिभवानुरूपफलप्रदित्सयेब सारथिना द्वि[४]षतामपहरितविविधपरिधानो गुरुप्रभृतिष्व[५] मीषु दिवा स्वापो मा भूदिति कृपया मन्यमान इव पुनरपि तदस्त्र क्षणादेव सजहार ॥


 वपुरिति । वपु निजदेह अत्रेभ्य अर्जुनबाणेभ्य सा कृतवता अर्पितवताम् । ‘तदधीनवचने च' इति सात्प्रत्यय । सुभटाना सुरीभूताना बरणार्थे स्त्रजे माला कर्तुम् । इति क्रियार्थ-'इत्यादिना चतुर्थी । कुलिशायुधस्य इन्द्रस्य शाखी कल्पवृक्ष कुसुमानामत्यये व्यये सति किसलयानि पल्लवान्यपि विबुधवारवधूभ्य दत्त्वा क्षुपता हस्वशाखित्व अवाप प्राप्तवान् । ‘हखशाखाशिफ क्षुप' इत्यमर । अत्र कल्पवृक्षस्य स्खल्पशाखित्वासबन्धेऽपि सबन्धोक्तेरतिशयोक्ति । तया चाजुननिहतारिवीराणामसुख्येयत्वप्रतीतेरलकारेण वस्तुध्वनि । सुमङ्गलीवृत्तम् ॥ ५१ ॥

 बाह्वोरिति । तत निलिम्पै देवै प्रकर्षेण वृष्टानि मुक्तानि कुसुमानि यस्य तथोक्तस्य तस्य अर्जुनस्य बाह्वो सबन्धिन प्रस्वापनास्रस्य महिमातिशयेन निखिला रिपूणा पृतना सेना युद्धादवतीर्णे प्राप्त स्व स्वीय श्रम अपनेतु निवार यितुमिवेत्युत्प्रेक्षा । निद्रायते स्म शिश्ये । अत्रोक्तोत्प्रेक्षा प्रस्वापनास्रमहेिमातिशग्र प्रत्यहेतोरपि अर्जुने रणश्रमशामकस्य सुरतरुकुसुमवर्षस्य हेतुत्वोक्तिरूपप्रौ- ढोक्तयलकारेणोज्जीवितेति द्वयोरङ्गाङ्गिभावेन सकर ॥ ५२ ॥

 तत इति । तत स बीभत्सु अर्जुन रिपुसेनानिद्रानन्तर परिषदि सभाया सम्यक् आनीत प्रापित य वधूपरिभव द्रौपदीतिरस्कार वत्रापहाररूप तस्यानुरूपस्य अनुगुणस्य फलस्य प्रदातुमिच्छा प्रदित्सा तयेवेत्युत्प्रेक्षा । सारथिना उत्तरेण विद्विषा कौरवाणा अपहरितानि विविधानि नानाजातीयानि परिधा-


  1. ‘सति दलान्यपि' इति पाठ
  2. ‘पृतना निखिला' इति पाठ
  3. 'निजबधू' इति पाठ
  4. ‘विद्विषा’ इति पाठ
  5. ‘अमीषु' इति नास्ति कचित्