पृष्ठम्:चम्पूभारतम्.pdf/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
चम्पूभारते


 तदनु हरिदङ्गणविशृङ्खलविक्ष्रमितविजयशङखरवो निजायुधनिक्षेपरक्षिषु भूत[१]कुटुम्बेषु [२]नवरुधिराजलिपान[३]तृप्तिकिलिकिलितमनुभवितुकाम इव पुनरपि पितृवनमेत्य वरुनिहितशस्रसभार पुरा [४]त्सहायातेषु गुणेषु आवामेव तव रणाद्भुतदर्शन प्रतिवाञ्चिते इति उपालब्धुमिव कृ[५]तसानिध्याभ्या क्लैब्यसारथ्याभ्या भू[६]य कृतानुषञ्जन कुरुकुञ्जरो भूमिजयमेव जगाद ॥

कुमार कोशीकुरु केशपाश मुखेऽश्रुणो मार्जय पातमार्गम् ।
तूण्या सम दोष्णि निधेहि चाप राशेरुपर्यास्स्व रथे पटानाम् ॥५८॥
बधान धैर्यं वद बन्धुगोष्ठथामात्मानमेवारिजयस्य हेतुम् ।
मातु पितुर्वा धुरि मत्रिणा वा मा तत्त्वगन्ध मम सूचयेति ॥५९॥


 तदन्विति । तदनु कौरवगमनानन्तर इरिता दिशा अङ्गणेषु प्राङ्गणेषु विशृङ्खल निष्प्रतिबन्धक यथा तथा विश्रमित व्याप्त विजय शङ्खरव देवदत्तनिनद यस्य स निजाना आयुधाना निक्षेप न्यास रक्षन्तीति रक्षिषु भूताना पिशाचाना कुटुम्बेषु नवै रुधिराञ्जलिपानै तृप्तै यत्किलिकिलित कलकलध्वनि त अनुभवितु श्रोतु कामो यस्य तथोक्त इव स्थित इत्युत्प्रेक्षा । पुनरपि पितृवन श्मशान एत्य तरौ शमीवृक्षे निहित न्यस्त शत्राणा आयुधाना सभार समूह येन तथोक्त । पुरात् विराटनगरात् सहायातेषु सहागतेषु गुणेषु आवा द्वे एव तव सबन्धिनो रणाद्भुतम्य दर्शन प्रतिवञ्चिते इत्युक्तप्रकार उपालब्धु निन्दितु कृत सानिध्य याभ्या तथोक्ताभ्यामिव स्थिताभ्यामित्युत्प्रेक्षा । क्लैब्य नपुसकत्व सारथ्य च ताभ्या भूय पुनरपि कृत अनुषञ्जन सबन्ध यस्य स कुरुकुञ्जर अर्जुन भूमिंजय इत्युत्तरस्यैव नामान्तरम् । त प्रत्येव वक्ष्यमाणप्रकारेण जगाद उक्तवान् । उत्प्रेक्षाद्वयस्य ससृष्टि ॥

 उक्तिप्रकारद्वाभ्यामाह-कुमारेति । हे कुमार उत्तर, केशपाश शिथिलकचभार कोशीकुरु । बन्धयेत्यर्थ । मुखे अक्षुण बाष्पस्य पातमार्गे धारपद्धतिं मार्जय । दोष्णि निजबाहौ चाप तूण्या सम निषङ्गेण सह निधेहि निक्षिप। रथे पटाना कौरवांशुकाना राशेरपरि आस्ख उपविश । रथिकत्वेन तिष्ठत्यर्थ ॥ ५८ ॥

 बधानेति । धैर्यं बधान चित्ते स्थापय । बन्धूना विराटादीना गोष्ठया सभाया आत्मानमेव अरीणा कौरवाणा जयस्य हेतु वद ब्रहि । मातु सुदेष्णाया धुरि अग्रे वा पितु विराटस्य धुरि वा मन्त्रिणा धुरि वा मम तत्त्वस्य पाण्डवत्वादे गन्ध लेशमपि मा सूचय वचनेङ्गिताभ्या मा ज्ञापय । इति जगादेति पूर्वेणान्वय । ‘गन्धो गन्धक आमोदे लेशे सबन्धगर्वयो’ इति विश्व ॥ ५९ ॥


  1. ‘कुटुम्भकेषु' इति पाठ
  2. ‘नवसमररुधिर ’ इति पाठ
  3. ‘परितृप्ति’ इति पाठ
  4. ‘समायातेषु’ इति पाठ
  5. ‘भूयोऽपि ल्कैम्य' इति पाठ
  6. ‘भूय’ इति नास्ति कचित्