पृष्ठम्:चम्पूभारतम्.pdf/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
सप्तम स्तबक ।



 अथ तथेत्यभ्युपगम्य क्षतजपङकारणितनेमिरेखैर्द्विषदौ[१]त्पातिकालातचकैरिय परिभ्रमद्भिश्चक्रै सक्रीडता शताङ्गेन [२]पथि गच्छन्नप्रेसरघो[३]टकखुरपुटकुट्टनत्रुटितधरणीतलोच्चलितरजोभाराक्रमणविनम्री[४]कृतपक्ष्मणापि [५]कुरुकुलजैत्रोऽयमिति विस्मयबलविस्तारितेन चक्षुषा वृहन्नलाामप्यनादृत्य मुहुर्मुहुरापिबद्भि पौररैनुगम्यमानोऽयमुत्तरो नलकूबर [६]ह्ववालका स्वा नगरी ग्रविश्य परस्परोपमर्दनद्विगुणितबन्दिवादित्रघोषेण महता राजमार्गे[७]णोपलक्षित पितु सभामभिजगाम

तान्येव पुष्पाणि त एव धूपास्ते केतवस्ते मणितोरणाद्वा ।
पुत्रस्य तस्यापि पुरोपचारा बभूवुरग्रे जयिन पितुयें ॥ ६० ॥


 अथेति । अथ अर्जुनोत्तयनन्तरम् । तथेति । यथा भवतोक्त सर्व तत्तथा करिष्यामीत्यर्थ । इत्युक्तप्रकार अभ्युपगम्य अङ्गीकृत्य क्षतजपङ्केन रक्तकर्दमेन अरुणिता सजातारुण्या नेमिरेखा चक्रान्ताय पट्टिका येषा तै । अतएव द्विषता औत्पातिकै दुनिमित्तजन्यै अलातचकै अङ्गरचकैरेिव स्थितैरित्यु- त्प्रेक्षा । परिभ्रमद्रि चक्रै रथाङ्गै सक्रीडता गच्छता शताङ्गेन रथेन उपलक्षित । “शताङ्ग स्यन्दनो रथ ,’ ‘चक्र रथाङ्ग तस्यान्ते नेमि स्त्री स्यात्प्रधि पुमान्’ इति सर्वत्राप्यमर । पथि मार्गे नगरगामिनि गच्छन् अग्रेसराणा रथपुरोयायिना घोटकाना अश्वाना खुरा पुटा इव तै कुट्टनेन सघर्षणेन त्रुटिताया विदारिताया धरण्या भूमे तलात् उच्चलितस्य उद्भतस्य रजोभारस्य परागपुञ्जस्य आक्रमणेन विनीकृतानि पक्ष्माणि यस्य तथोक्तेनापि । रजसा यो भार तेनावनत्रीकृतपक्ष्म णापीति वा । अय अस्मद्राजकुमार कुरुकुलस्य दुर्योधनादिन्दस्य जैत्र । इति उक्तप्रकारेण विस्मयबलेन आश्चर्यातिशयेन विस्तारितेन विधृतेन चक्षुषा इन्द्रियेण बृहन्नला सारथित्वेन अग्रे स्थितामपि अनादृत्य मुहुर्मुहु आपिबद्भि निरीक्षमाणै पौररैनुगम्यमान अय उत्तर स्खा खीया नगरीं पुरीं नलकूबर कुबेरपुत्र अलव तत्पुरीमिव प्रविश्य परस्पर अन्योन्य उपमर्दनेन मेलनेन द्विगुणित द्विरावृत्त बन्दिना स्तुतिपाठकाना वादित्राणा वीणावेणुमृदङ्गताळादीन च घोष सङ्कलशब्द यस्मिस्तथोक्तेन महता विस्तीर्णेन राजमार्गेण उपलक्षित पितु विराटस्य सभा आस्थानमण्डप अभिजगाम प्राप्तवान् ॥

 तानीति । जयिन दक्षिणगोग्रहजयशालिन पितु विराटस्य अग्रे प्रथमम्।


  1. ‘औत्पातिककालचत्र्कै ’ इति पाठ
  2. ‘परिगच्छन्' इति पाठ
  3. गोघटा' इति पाठ
  4. ‘भूत' इति पाठ
  5. ‘कुरुभट' इति पाठ
  6. ‘अलकामिव स्वा पुरीम्’ इति पाठ
  7. ‘उपलक्षित' इति नास्ति कचिव