पृष्ठम्:चम्पूभारतम्.pdf/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
सप्तम स्तबक ।


इति तादृशी तस्य वचनचातुरीं निशन्य[१] दुरोदरविहा[२]रप्रहारवेद्नामष्यविगणय्य तरलितेन शिरसा [३]क्ष्घयमाने यतीन्द्रे वासरविरामशसिन यामशङ्खरवमाकर्ण्थ यथोचित सभास्तारान्विसृज्य मेदिनीपतिमोंदेन सुदेष्णाप्रासादमाससाद ॥

सुतावलोकेन नरेन्द्रसुश्रुव-
 क्ष्च्युताखिलाश्रुष्वपि सोदरात्ययात् ।
विलोचनाङ्गेष्वतिवृष्टिसपदे
 विभाण्डकापत्यविजृम्भणायितम् ॥ ७० ॥


युद्ध सारथ्य च अपगत अर्थ प्रयोजन यस्मात्तयोक्त पायेन रहित च नासीत् तस्मात् कारणत्' पुर अग्रे विजय जय अर्जुन च आबाय विन्यस्य इमा पुरी प्रति पुन आगा आगतवानस्मि । कर्म निष्फल चेत्पार्थो न चेञ्च जीवन्न पुनरा गच्छेयमेवेत्यर्थ ॥ ६९ ॥

 इतीति । इत्युक्तप्रकारा तादृशी शब्दशक्तिमूलव्यञ्जनया वास्तवाथप्रका शिका वचनाना चातुरी नैपुण्य निशम्य श्रुत्वा यतीन्द्रे युधिष्ठिरै दुरोदरविहारे धूतक्रीडाया प्रहारेण विहायोत्तरप्रशसा बृहन्नलाप्रशसया कुपितविराटकृतपाशकताडनेन या वेदना तामप्यविगणरय अनादृत्य तरलितेन कम्पितेन शिरसा श्लाघयमाने अभिनन्दयति सति मेदिन्या भूमे पति विराट वासरबिरामस्य सायकालस्य शसिन सूचक यामाना चतुर्णा सबन्धिन शङ्खरव आकर्ण्य सभा स्तारान् सभाजनान् यथोचित तत्तदर्होपचार यथा तथा विसृज्य अनुज्ञाप्य मोदेन पुत्रजयजन्यसतोषेण उपलक्षित सुदेष्णाया उत्तरस्य मातु सबन्धिन प्रासाद सौध आससाद प्रविवेश । पुत्रेण सहेति शेषः ॥

 सुतेति । सोदराणा कीचकाना अत्ययात् नाशाद्धेतो च्युतानि गलितानि अखिलानि नि शेषाणि अक्ष्रूणि बाष्पजलानि येषु तथोक्तेष्वपि नरेन्द्रसुभ्रव सुदेष्णाया विलोचनेषु अङ्गा अङ्गारया जनपदा इवेत्युपमितसमास । उपमा प्रायपाठात् तेषु अतिवृष्टिसपदे समृध्धै सुत्तस्य उत्तरस्य अवलोकेन दर्शनेन विभाण्डकापत्यस्य ऋष्यशृङ्गमुने विजृम्भणेन आविर्भावेनेव आचरित तद्विजृम्म् णायितम् । कृजन्तात्कर्तरि क्त । ऋष्यशृङ्गागमेनाङ्गदेशेष्विव उत्तरावलोकेन सुदे प्णानेत्रयोरानन्दबाष्पाणा अतिपृष्टिरासीदित्यर्थ । ऋष्यशृङ्गागमान्महती वृष्टिर्भ वतीत्यागमप्रसिद्धम् । अत्रानन्दबाष्पवृष्टिसुतावलोकनयो कार्यकारणयोस्क्ते र्हेत्वलकार । तस्य चोपमया सहैकवाचकानुप्रवेशसकर । वशस्थम् ॥ ७० ॥


  1. ‘आकर्ण्थ’ इति पाठ
  2. विहार इति नास्ति कचित्
  3. श्लाघमाने’ इति पाठ