पृष्ठम्:चम्पूभारतम्.pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
चम्पूभारते


सहकारपल्लवतल्लजपरिचर्वणगर्वायमाणकलकण्ठयुवकण्ठोत्त्कपथिकजनसदोहजीवितसदेहा वनदेवतावदनतिलकायमानतिलकावलिकलिकापलितभावुकनभोविभागा मदनहुतभुगङ्गारसद्दशकमलभृङ्गा[१] रूमधुरससङ्गारचितमदभृङ्गारवविभवतुङ्गारहितमिथुनशृङ्गाररसां समुन्मिषद्वासन्तिकामिषेण सीमन्तिनीरतेरूदन्त दुरन्तविचि[२]न्त्य रहसि वसन्त नृप तमिव हसन्तो वसन्तोदयवासरा मन्दमन्द[३]मरण्याङ्कधरण्या कमपि विकासमापादयामासु ।


ञ्जल्काग्रेषु भासुराभिर्धूलीभि पुष्परजोभिर्धूसरा मलिना दशदिशो येषु ते तथोक्त्ता । मनसिजस्य मन्मथस्य विजये विषये सहकार साह्यकरण तस्मिन् चतुराणा समर्थाना सहकाराणा चूतपुष्पाणा पल्लवतल्लजा क्षेष्ठपल्लवा । 'प्रकाण्डमुक तल्लजौ' इति प्रशस्तवाचकेष्वमर । तेषा परितश्वर्वणेन गर्वायमाणाना द्दप्यता कलकण्ठयूना तरूणकोकिलाना कण्ठेन । कुहूरवेणेत्यर्थ । उत्त्क पथिकजनसदोहस्य पा थसमूहस्य जीवितसदेह एते जीवन्ति न वेति सशयो येषु ते तथोत्त्का । वनदेवताना वदने मुखे तिलकवदाचरन्तीभिस्तिलकायमानाभिस्तिलका वृक्षविशेषास्तदावल्या कलिकामि कुशलै पलितभावुका । धवलायमाना इत्यर्थ । नभोविभागा आकाशप्रदेशा येषु ते तथोत्त्का । मदन एव हुतभुगग्निस्तस्याङ्गारैरलातै सद्दशानि कमलानि रत्त्काब्जानि तान्येव भृङ्गारव सूक्ष्ममुखपात्रविशेषा । 'भृङ्गारु कनकालुका' इत्यमर । 'भृङ्गार' इति च पठ्यतेऽय शब्द । तेषु यो मधुरसो मकरन्दस्तस्य सङ्गेन । पानेनेत्यर्थ । आरचितो जनितो मदो येषा तेषा भृङ्गाणामारवविभवेन झङ्कारसमृध्द्या हेतुना तुङ्गोऽघिकोऽरहितानाम‌वियुत्त्कानां मिथुनाना स्त्रीपुसाना शृङ्गाररस सभोगसुख येषु ते तथोत्त्का । वसन्तस्य ऋतोरूदय आविर्भावो येषु ते च ते वासरा दिनानि सीमन्तिनीभि स्त्रीभि सह रते सुरतस्य सबन्धिनमुदन्त वृत्तान्तमपि दुरन्त दु खावसानक विचिन्त्यालोच्य । मुनिशापादिति भाव । रहसि वसन्तम् । वासन्तिकवैभवावलोकनाशत्त्क्येति भाव । नृप पाण्डु समुन्मिषन्त्या विकसन्त्या वासन्तिकाया भाधवीकुसुमस्य मिषेण व्याजेन हसन्त परिहास कुर्वन्त । इवेत्युत्प्रेक्षा । अरण्यम ङ्कश्चिह्न यस्या तस्या धरण्या भुवि कमप्यनिर्वाच्य विकास प्रकाश मन्दमन्द शनै शनैरापादयामासुश्चक्रु । उपमोत्प्रेक्षारूपकानुप्रासाना ससृष्टि ॥


 

  1. 'भृङ्गार' इति पाठ
  2. 'मनसि विचिन्त्य' इति पाठ
  3. 'अरण्याङ्गणषर-ण्याम्' इति पाठ