पृष्ठम्:चम्पूभारतम्.pdf/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
अष्टम स्तबक ।


निमीलनालिङ्गितनेत्रयुग्मो निष्पन्देहो नितरा बभौ य।
स्खध्यानशैलीसुखमास्थिताना तपस्विना सघामियानुकुर्वन् ॥ ९ ॥
 देवीकुचाद्विरुरुचे घुसृणेन कलृप्त
  सक्त कपोलफलके[१] मकरो यदीये ।
 स्वाङ्कध्यजारिज[२]यिने विजयाय सिद्धि
  विश्राणयेति निगदन्निव कर्णमूले ॥ १० ॥
पाश्चात्यपाथोनिधिपार्श्वभागे सपूर्य कुक्षि सलिलस्य पूरै ।
सजातियूथाच्युतिमाश्रितस्य क्रम द्धौ यो घनशावकस्य ॥

तत प्रबुद्धेन तेन देवेन तयो क्र[३]मेण प्र[४]थमाभ्यागमनदर्शनाभ्या


तस्य शौरे कुन्तले कचेऽपि द्वयो वक्रिमाण कौटिल्यम्। तत्तारतम्यमिति यावत् । परीक्षितु उत्सुकता औत्सुक्य दधान इवेत्युत्प्रेक्षा । रेजे ॥ ८ ॥

 निमीलनेति । निमीलनेन निमिषेण आलिङ्गित सगत नेत्रयोर्युग्म यस्य तथोक्त निष्पन्द निश्चल देह यस्य स य शौरेि खस्य आत्मन ध्यानशैल्या विगलितवेद्यान्तरमैक्यानुसधानेन यमुख ब्रह्मानन्द तदास्थिताना प्राप्तवता तपस्विना योगिना सध अनुकुर्वन्निवेत्युत्प्रेक्षा । नितरा बभौ रेजे ॥ ९ ॥

 देवीति । देव्या रुक्मिण्या कुचात् यस्य शौरे सबन्धिनि यदीये कपोल फलक इव तस्मिन् सप्त चुम्बनसमये लग्न घुसृणेन कुडिक्षमेन कलृप्त लिखित मकर मकराकृति रेखा स्व अङ्क यस्मिन् तादृश ध्वज यस्य तस्य मन्मथस्य अरे शभो जयिने विजयाय अर्जुनाय सिद्धिं काहिक्षतार्थसाफ्त्य विश्राणय ददस्व इति कर्णमूले निगदन् विज्ञापनिवेत्युत्प्रेक्षा। विरुरुचे रराज । ‘मीनध्वज इति पाठ प्रकृतमकरे विज्ञापनोत्प्रेक्षया असगतर्थकत्वादुपेक्ष्य । मीनकेतन इत्यत्र मत्स्यजातित्वान्मकर एव मीन इत्यमरव्याख्यानात् । क्थचित्सगमनेऽपि पर्यायभङ्गाख्यदोषापत्तिरिति ॥ १० ॥

 पाश्चात्येति । य शौरि पश्चाद्भव पाश्चात्य पश्चिम पाथोनिधि समुद्र तस्य पार्श्वभागे सलिलस्य पूरै प्रवाहै कुक्षि सपूर्य सजातीना सकुल्याना मेघाना यूथात् वुन्दात् च्युतिं भ्रश आश्रितस्य प्राप्तस्य धनशावकस्य मेघबालकस्य क्रम रीति दधौ धृतवान् । अत्रान्यक्रमस्य अन्यत्रासभवेन तत्सदृशक्रमाक्षेपादसभवद्धमसबन्धनिबन्धनो निदर्शनालकार । यस्येयादिश्लोकचतुष्टये यच्छब्दस्तस्य शौरेरिति पूर्वश्लोकेऽ वेतीति ध्येयम् ॥ ११ ॥

 तत इति । तत दुर्योधनार्जुनागमनानन्तर प्रबुद्धेन तेन देवेन कृष्णेन तयो


  1. मीनध्वजा' इति पाठ
  2. ‘जयिन ' इति पाठ
  3. ‘क्रमेण’ इति नास्ति ऋचित्
  4. ‘प्रथमागमन’ इति पठ