पृष्ठम्:चम्पूभारतम्.pdf/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
चम्पूभारते


कृत्यसाम्य हृदिकृत्य [१]रणाङ्कणे गृहीतहेतीना नवकोटिसख्यावता गोपकुमाराणा कदम्बेन केनचिदशेन केवलसनिधानेन स्वेनापि केनचिदशेन परिपूरितघनमनोरथौ सुयोधनधनजयौ स्वावासकटकभुवमासेदतु ॥

सेनागजेन्द्रमसौरभवीचिवेग-
 निर्धृतगोग्रहणसयुगपूतिगन्धम् ।
सवीक्ष्य मत्स्यवसुधेन्द्रपुरोपकण्ठ
 शौरिश्च शक्रतनयश्च ननन्दतुस्तौ ॥ १२ ॥
दृष्ट्वा निवृत्य वदतो युधि पाण्डवाना-
 मुत्साहमुग्रमथ सजयतो निशम्य ।
वातैर्विनापि मणिसौधतले निवास
 कुवेन्नकम्पत भृश कुरुवशकेतु ॥ १३ ॥


दुर्योधनस्य अर्जुनस्य च द्वयो क्रमेण प्रथम अभ्यागमनेन प्रथम दर्शनेन च द्वाभ्या हेतुभ्या कृत्ये सात्यकरणे विषये साम्य तौल्य हृदिकृत्य । मनसि निधि त्येत्यथ । रणाङ्कणे गृहीतहेतीना धृतायुवाना नवकोटिरूपा सख्या एषामस्तीति तद्वता गोपकुमाराणा नारायणगोपालारयाना कदम्बेन बृन्देन । तदात्मकेनेत्यर्थ । एवमग्रेऽपि । केनचिदशेन एकेन भागेन केवल निरायुध यथा तथा सनिधानेन समीपे वर्तमानेन स्वेनापि केनचिदशेन च परिपूरित घनमनोरथ साह्यकरणरूप ययोस्तौ सुयोधन धनजयौ दुर्योधनार्जुनौ स्खस्य स्खस्य च आवास निरासभूता कटकभुव हास्तिनपुरप्रदेश मात्स्यपुरप्रदेश च आसेदतु प्राप्तवन्तौ ॥

 सेनेति । शौरि कृष्णश्च शक्रतनय अर्जुनश्च तैौ सेनासु धर्मराजसहायार्थमागतेषु सैन्येषु गजेन्द्राणा मदस्य दानजलस्य सोरभवीचिभि परिभलपरम्पराभि वेगेन निधृत निरस्त गोग्रहणे सयुगस्य गोग्रहणनिमित्तकयुद्धस्य सबन्धी पूति गन्ध दुर्गन्व हतकरितुरगरथकपदातिकलेवरजन्य यस्मिन् तथोक्त मत्स्यबसुधेन्द्रपुरस्य विराटनगरस्य उपफष्ठ समीपदेश सम्यङ् वीक्ष्य ननन्दतु । अत्र तादृ क्पुरोपकण्ठदर्शनस्य विशेषणगत्या आनन्दहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम ॥ १२ ॥

 दृष्ट्वेति । अथ कृष्णार्जुनागमनानन्तर दृष्ट्वा पाण्डवान् विलोक्य निवृत्य पुनरागत्य वदत कथयत सजयत सजयात् । पाण्डवतत्वजिज्ञासया प्रेषितादिति शेष । युधि युद्धे विषये पाण्डवाना धर्मराजादीना सबन्धिन उग्र भयकर उत्साह वीररस निशम्य श्रुत्वा कुरुवशस्य केतुरिव केतु । तद्वप्रख्यापक इत्यर्थ । धृतराष्ट्र कुरूणा सबन्धि वशकेतु वेणुकाण्डबद्धध्वज इत्यपि । मणिमये सौधतले निवास


  1. ‘रणाङ्गणे’ इति पाठ