पृष्ठम्:चम्पूभारतम्.pdf/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२९
अष्टम स्तबक ।

[१]वलोकयन्नथ पुरप्रतोलिकामनिमेषमौरनतानिरन्तराम् ।
मृद्वरानतेषु स दुरासद परैर्यदुराज एषविदुरालययौ ॥
 तमसा कुलानि सकलानि दर्शन
  सति सद्य एव शमयन्महामहा ।
 स विवेश तत्र विदुरस्य मन्दिर
  चरमाद्रिकन्दस्म[२]भीभामिव् ॥ २६ ॥
कुसवैरिणि समेयुषि गेह क्षत्तुरा [३]तिशयिकं मदनृत्तम्
[४]साक्षिपा गमयति स्म पुरारे साध्यताण्डवविधेरवलेपम् ॥ २७ ॥
 विरतेरुचित विशुद्धमह्नो
  विविमाधाय पितृष्वसु सकाशे ।


 अवलोकयन्निति । अय हास्तिनपुरस्रायनन्तर आनतेषु प्रणतेषु विषये मृदु कृपार्द्र परै आनतेभ्योऽन्यै शत्रुभिर्वा दुरासद प्राप्तुमशक्य स एष यदुराज श्रीकृष्ण अनिमेषया कृष्णावलोकनार्थ निर्निमेषनेत्रया पौरजनतया पुरवासिजनसमूहेन निरन्तरा सबाधा पुर हास्तिनपुरस्य प्रतोलिका रथ्या अव लोकयन् सन् विदुरस्याल्य गृह य्ह प्रति ययौ गच्छति स्म । लाटानुप्रास । मञ्जुभाषिणी ॥ २५ ॥

 तमसामिति । महत् लोकोत्तर सह तेज यस्य तथोक्त । अतएव स कृष्ण दर्शने सति सद्य एव सक्लानि तमसा पापाना अन्धकाराणा च कुलानि बृन्दानि । ‘तमोऽन्धकारे स्वर्भानावघे शोके गुणान्तरे’ इति विश्व । शमयन् नाशयन् सन् । तत्र हास्तिनपुरे विदुरस्य मन्दिर गृह अभीशुमान् सूर्य चरमाद्रे अस्ततैलस्य कन्दर दीमिव विवेश प्रविष्टवान् । अत्र कृष्णसूर्ययो प्रवेशेनौप म्यस्य गम्यत्वात्केवलप्रकृतास्पदस्तुल्ययोगिताभेद । ‘अशुमानपि’ इति पाठेऽ प्युत एवालकार । परतु वाक्यभेदमात्रम् ॥ २६ ॥

 कसेति । कसस्य वैरिणि कृष्णे गेह गृह प्रति समेयुषि प्राप्तवति सति अतिशयात् सर्वोत्कर्षाज्जात आतिशयिक क्षत्तु विदुरस्य मदस्य सतोषस्य नृत्त नाटयम् । ऋद्धिरिति यावत् । ‘मदो रेतसि दर्पे च हर्षद्विरददानयो’ इति विश्व । पुरारे शभो सबन्धिन सध्याया भवस्य साध्यस्य ताण्डवविधे नाव्यक्रियाया अवलेप गर्व सक्षिपा सक्षेप गमयति स्म प्रापयामास । आनन्दसान्द्रोऽभूदित्यर्थ । `गतिबुद्धि-' इत्यादिना अणिर्तु कर्मत्वम् । उपमालकार । ‘तस्य मुष्णाति सौभाग्यम् ’ इत्यादौ दण्डिना तदभिधानादिति । खागता ॥ २७ ॥

 विरतेरिति । अहो विरते सायकाळस्य उचित करणीय विशुद्ध पावन


  1. अय श्लोक केषुचित्पुस्तकेषु न दृश्यते
  2. ‘अमीषुमानपि’ इति पाठ
  3. ‘आतिशयित भदनृत्यम्’ इति पाठ
  4. ‘सक्षय’ इति पाठ