पृष्ठम्:चम्पूभारतम्.pdf/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
चम्पूभारते

निर्गत्य सुयोधनदुर्वासिताया नगरभुव [१]स्पर्शन परिहर्तुमिव [२]द्वारि सविनयमु[३]पागतेन दारुकेण सयोजितमणिपादुक किंचि[४]दवनमितपूर्वकायेण विदुरेण वितीर्यमाणहस्तावलम्बो गुरुकृपप्र‘[५]मुखैर्ब्रह्रसघै प्रतिपाद्यमाना जयाशिष शिरसा प्रतिगृह्वान [६]कुशलप्रश्नकोरकितमोद्वाभ्या कुरुराजदेवव्रताभ्या सदनाभिगमनाय [७]सप्रार्थ्यमानश्चिरतरावसर प्रतिपालयतामक्षौहिणीपतीनामञ्जलि[८]कमवनावलिमवलोकनेन सभावयमानो मुकुन्दो बन्दिवृन्परिपठयमानकसादिवि[९]जयबिरुदावलि[१०]प्रबन्धबन्धुरेण मङ्गलकुसुमगन्धसपन्धीकृतपुष्पधयझकारसहचरवादित्रघोषेण मेघवर्जमुन्मिषन्तीभि सौदामिनीभिरिव कनकवेत्रलताभि [११]कुलीकृतेन महता राजपथेन सुयोधनादिभिश्चतुर्भिरध्यासेतपूर्व सभामण्डप शनै शनैरवजगाहे ॥


तथोक्त । निर्गत्य द्वारपर्यन्तमागत्य सुयोधनेन खलेन दुर्बासिताया निवासान र्हीकृताया नगरभुव हास्तिनपुरभूमे स्पशन परिहर्तुमिव द्वारि द्वार एव । नतु प्राङ्गण इयर्थ । सविनय यथा तया उपागतेन दारुकेण सयोजिते सघटिते मणिमये प्रादुके यस्य तथोक्त । किचित् अवनमित विनयात् प्रह्वीकृत पूर्वकाय येन तेन विदुरेण वितीर्यमाण दीयमान हस्तावलम्ब यस्य तथोक्त । गुरु द्रोण कृपश्व द्वौ प्रमुखौ प्रधानौ येषा ते ब्रह्मसघै ब्राह्मणकुले प्रतिपाद्यमाना कियमाणा जयाशिंष शिरसा प्रतिगृह्णान शिरोवनतिपूर्वक स्वीकुर्वाण कुशलप्रश्नै कोरकित सजातकोरक । प्रवर्धित इति यावत् । मोद सतोष ययोस्ताभ्या कुरुराजदेवव्रताभ्या धृतराष्ट्रभीष्माभ्याम् । यत्तु ‘कुरुराजो दुर्योधन ’इति, तन्न। ‘सुयोधनादिभिश्चतुर्भिरध्यासितपूर्वम्’इत्युत्तरग्रन्थेन सदर्भविरोधात्। सदनाभिगमनाय निजगृह प्रति आगन्तुमिति । ‘तुमर्थाच्च भाववचनात्’ इति चतुर्थी। सम्यक् प्राथ्थैमान चिरतरं अत्यन्तविलम्बेन अवसर नमस्कारसमय प्रतिपालयता निरीक्षमाणाना अक्षौहिणी पतीना अक्षौहिणीसख्यसेनानायकाना अजीनामेव कमलवनाना आवलि पक्तङि अवलोकनेन दर्शनेन सौरतेज प्रसरणात्मकेन सभावयमान बहुमन्यमान मुकुन्द श्रीकृष्ण बन्दिना स्तुतिपाठकाना वृन्देन परित पठयमानै कसादीना खलाना विजयस्य सबन्धिभि बिरुदावलीभि नाम प्रबन्धे बन्धुरेण व्याप्तेन । शब्दायमानेनेति यावत् । मङ्गलकुसुमाना आचारार्थ विकीर्णपुष्पाणा गन्धसपदा परिमलसमृध्द्य अन्धीकृताना पुष्पयाना मत्ताना भृङ्गाणा झकारै सहचर मिश्र


  1. ‘सस्पशनम्’ इति पाठ
  2. ‘द्वारि’ इति नास्ति कचित्
  3. ‘आगतेन' इति पाठ
  4. ‘किंचिदेव' इति पाठ
  5. मुखै’ इति पाठ
  6. ‘ब्राह्मणै ’ इति पाठ
  7. ‘चिरमवसर' इति पाठ
  8. ‘वनजावलिम्’ इति पाठ
  9. ‘वध’ इति पाठ
  10. ‘प्रज धनम्' इति पाठ
  11. आङ्कलितेन' इति पाठ