पृष्ठम्:चम्पूभारतम्.pdf/३४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
अस्तम स्तबक ।


आकर्ण्य तच्चकितचेतसि नम्रवक्त्ते
 कर्णौ पिधाय नृपतौ करसपुटाभ्याम्।
मत्वा तृणाय मधुवैरिणमप्यळद्धथ
 गोष्ठया जवेन निरगात्कुरुराजसूनु ॥ ४८ ॥

 तदनु दनुजारातिरेष रोषस्मितलेशरूषिताधरस्तादृशेन तस्यावलेपवचनेन भिया विहस्तान्भुदा निरस्तान्समस्तानपि सभास्तारान्पु[१]रस्तान्निरीक्ष्य पुनरपि वाचमेव ज[२]गाद ॥

धराभुजा कि तटिनीभुवा कि मयाधुना किं वसतापि दूत्ये ।
पथिार्य दातु प्रभवेद्धरित्री गदैव सा गन्धवहस्य सूनो ॥ ४९ ॥


अवधूय त्यक्त्वा यथागत आगमन यथा निष्फल तथेत्यर्थ । गन्तव्यम् । त्वयेति शेष । इति गिर उज्जगारेति पूर्वेणान्वय । अत्र स्त्रैणोपजीवनकैन्लेयार्थगोपालदूत्यवत्स्तुना तदीयदूल्य त्वदनुगुणमेवेत्यनुरूपसधटनात्मकसमाळकारप्र तीते वस्तुनालकारध्वनि ॥

 आकर्ण्येति । तत् दुर्योधनस्य दुरुक्त आकर्ण्य चकित भीत चेत यस्य तस्मिन् अतएव नृपतौ धृतराष्ट्रे । करौ सपुटे इव ताभ्या कर्णौ पिधाय आच्छाद्य नम्र नत वक्र मुख यस्य तथोक्त्ते सति । कि र्क्तव्यतामौढथेनेति भाव । कुरुराजसूनु दुर्योधन अलङघय लोकत्रयेणाप्यनतिक्रमणीय मधुवैरिण श्रीकृष्णमपि । किमुतान्यानित्यर्थं । तृणाय मत्वा । तृणभिवानादृत्येत्यर्थं । ‘मन्यकर्मण्यनादरे’ इति चतुर्थी । जवेन वेगेन गोष्ठया सभात निरगात् निर्गतवान् । मूर्खाणा न क्कापि विवेकावकाश इति भाव ॥ ४८ ॥

 तदन्विति । तदनु दुर्योधननिर्गमनानन्तर एष दनुजाराति श्रीकृष्ण । तादृशेन कि वा सधान इत्यादिविधेन तस्य दुर्योधनस्य अवलेपवचनेन साहकारवाक्येन यो रोष क्त्तेव तेन य स्मितलेश हासलव तेन रूषित व्याप्त अधर यस्य तथोक्त्त सन् । भिया क्षत्रियलोकमात्रविपत्तिभयेन विहस्तान् व्याकुलान् मुदा सतोषेण निरस्तान् त्यक्तान् । तच्छून्यानिति यावत् । समस्तानपि सभास्तारान् सभ्यान् पुरस्तात् अग्रे निरीक्ष्य दृष्ट्वा पुनरपि वाच एव वक्ष्यमाणप्रकारेण जगाद उक्तवान् ॥

 धरेति । अधुना धराभुजा धृतराष्ट्रेण कि कार्यम् । तटिनीभुवा भीष्मेणापि किम् । दूत्ये वसता वर्तमानेन मयापि किम् । अस्माभिस्तु पार्थाय धरित्री न दाष्यत एवेत्यर्थं । परतु सा दुर्निवार्यत्वेन प्रसिद्धा गन्धवहस्य वायो सूनो भीमस्य गदैव पार्थाय धर्मराजाय धरित्री भूमिं दातु दापयितु प्रभवेत् समर्था भवेत् ॥ ४९ ॥


  1. ‘पुरस्तात्' इति नास्ति कचित्
  2. ‘व्याजहार ' इति पाठ