पृष्ठम्:चम्पूभारतम्.pdf/३५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५५
नवम स्तबक

 तत क्षणादेव विशालविनिर्मितवीथीसहस्रवि[१]राजमानविशङ्कटविपेणि[२]विविधपण्याहरणविमर्दसहक्रयिकलोक विटकुलानुसार्य[३]माणवारविलासिनीजन[४]निबिडवेशवाट विशिखाकृपाणकुन्तशक्ति[५]प्रमुखविविधायुधसरकारपरवशयोधसबाब तत्कुरै[६]क्षेत्र कुरूनगरमित्र बभूव ॥

 तत्र ताब[७]डु श।सन्नाग्रज ‘भगवन्, अस्मिन्नुपतस्थुषि वीरभुजविनोदकाले त्व बि[८]वाहविमुखोऽपि मदर्थ प्रत्यर्थपार्थिवान्नि[९]हन्तु पृतनाधिपत्यलक्ष्मी[१०]मुपयच्छस्व’ इति चिज्ञा[११]प्य पितामहस्य च[१२]रणयो प्रणिपपात ।


 तत इति । तत राझा पटमन्दिरनिर्माणानन्तर क्षणादेव विशाल विस्तीर्ण यथातथा विनिर्मिताना रचिताना वीथीना सहस्त्रै विराजमान विशङ्कटासु विशालासु विपणिषु पण्यवीथिषु विविधाना नानाजातीयना पण्याना । ऋग्य वस्तूना आहरणे ग्रहणसमये विदै समर्द सहन्त इति तत्सहा क्रयिकलोका क्त्रेतृजना यस्मिन् तथोक्तम् । विटाना कुलेन भृन्देन अनुसार्यमाणेन वारवि लासिनीजनेन वेश्याजनेन निबिडा सान्द्रा बेशवाटा वेश्यानिवासा यस्मि स्तथोक्तम् । विशिखा बाणा , कृपाणा खङ्गा , कुन्ता , शक्तय प्रमुखा येषा तादृशाना विविधाना आयुधाना सस्फारे शाणोत्तेजनाया परवशै प्रवणै योवै सबाध सकट तत् प्रसिद्ध कुरुक्षेत्र कुस्नगरस्य हास्तिनपुरस्य मित्र तुल्य बभूव । उपमालकार ।

 तत्रेति । तत्र तावत् तदानीमेव दु श सनस्याग्रजो दुर्योधन हे भगवन् भीष्म, त्व विवाहे विषये विमुख पराङ्युखोऽपि उपतस्थुषि सन्निहिते अस्मिन् वीराणा भुजविनोदकाले बाहुपराक्रमक्रीडासमये मदर्थं मम कृते प्रत्यर्थिन पार्थिवान् शत्रुराजान् प्रत्यर्थिना पाण्डवाना सबन्विन पार्थिवान् सह्यायान्। नतु प्रत्यथिन इति च । निहन्तु पृतनाना सेनाना आधिपत्यलक्ष्मी उपयच्छख परिगृहीष्व इति विज्ञाष्य पितामहस्य भीष्मस्य चरणयो प्रणिपपात नमस्कृतवान् ।


  1. ‘विराजमान' इति पाठ
  2. ‘विपणिविस्तरितविविध’ इति पाठ
  3. ‘वार’ इति नास्ति कचित्
  4. निबिडित’ इति पाठ
  5. ‘प्रासतोमरप्रमुख’ इति पाठ
  6. ‘तावत्’ इति नास्ति कचित्
  7. विनोदन’ इति पाठ
  8. ‘विहितविवाह' इति पाठ
  9. ‘विनिहन्तु’ इति पाठ
  10. ‘उपयमस्व’ इति पाठ
  11. विशापितस्य इति पाठ
  12. ‘चरणनलिनयो ’ इति पाठ