पृष्ठम्:चम्पूभारतम्.pdf/३५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५७
नवम स्तबक

 इदं प्रतिपद्य विद्यमान मानधन सुयोधनम् ’वत्स, मा भैषी । महाभुजानापि रिपुमहीभुज सख्ये खरतरविशिखमुखेन खा[१]दयामि’ इति पितामह [२]आश्वासयामास ॥

 तदनन्तरम् ।

 अभ्रापगातनयपार्षतनन्दनाभ्या-
  [३]मग्नावनौ तिलकिता धृतकार्मुकाभ्याम् ।
 उच्चावच निजनिज बिरुद वहन्तो
  युद्धाय तस्थुरुभयेऽपि कुरुप्रवीरा ॥ ९ ॥

 जेता पुरामिव त[४]दा जलजातयोनि
  [५]पत्रीश्वराग्रजमिव प्रथमो ग्रहाणाम् ।
 अग्रे वि[६]धाय यदुनायकमात्ततोत्र
  पार्थो रथी प्रधनभूमिमवाप वीर ॥ १० ॥


 इदमिति । इद कर्णप्रतिज्ञात प्रतिपद्य श्रुत्वा खिद्यमान दु खायमान मान धन सुयोधन हे वत्स दुर्योधन, मा भैषी कर्णदुष्प्रतिज्ञात भय माप्रुहि । महान् श्लाध्य भुज बाहुपराक्रम येषा तान् रिपुमहीभुज शत्रुभूपान् सख्ये युद्धे खरतरेण अतितीक्ष्णेन विशिखमुखेन बाणेनैव वक्त्रेण खादयामि । भिन्द्यामित्यर्थ । इत्युक्तप्रकारेण पितामह आश्वासयामास आश्वासितवान् ॥

 तदनन्तरमित्युत्तरेणान्वय ॥ ९ ॥

 अभ्रेति । घृत कार्मुक धनु याभ्या ताभ्याम् । अभ्रापगातनयेन भीष्मेण पार्षतनन्दनेन धृष्टघुम्नेन द्वाभ्यामग्रावनौ अप्रदेशौ । तिलकिता अलकृता । उभयेऽपि कुरुप्रवीरा कौरवा पाण्डवाश्च उच्चावच अनेकविव निजनिज प्रत्येक स्वीय बिरुद जयचिह्न छत्रचामरादि वहन्त सन्त युद्धय युद्ध कर्तु तस्थु । सन्नद्धा बभूवुरित्यर्थ ॥

 जेतेति । तदा युद्धारम्भकाले वीर पार्थ अर्जुन आत गृहीत तोत्र अश्वताडन येन तथोक्त्त यदुनायक श्रीकृष्ण पुरा त्रिपुराणा जेता जयी सदाशिव जलजातयोनि ब्रह्माणमिव । प्रहाणा प्रथम सूर्य पत्रीश्वरस्य गरुडस्य अग्रज अनूरु अग्रे रथस्य अग्रभागे विधाय कृत्वा । सारथीकृत्येति यावत् । रथी रथमारूढ सन् प्रधनभूमि युद्धभूभि अवाप प्राप्तवान् । उपमादूयससृष्टि ॥ १० ॥


  1. ‘खदिष्यामि’ इति पाठ
  2. ‘प्रसादयामास' इति पाठ
  3. ‘अग्रावनी’ इति पाठ
  4. ‘पुरा' इति पाठ
  5. ’पक्षीश्वरा’ इति पाठ
  6. ‘निधाय’ इति पाठ