पृष्ठम्:चम्पूभारतम्.pdf/३६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
चम्पूभारते


 कुत्तान्यमुञ्चत विरोचिकुलानि कश्चि-
  त्कञ्चिजबेन जगृहे युधि भूतवर्ग ॥ ३५ ॥
 देवव्रते दलितवैरिणि दृष्टमात्रे
  सारथ्यमात्रक्ररणे कृतसगरोऽपि ।
 मूले न केवळम[१] हो मुरभिद्रथस्य[२]
  मध्येऽपि[३] चक्रम[४] तिसभ्रमयाचकार ॥ ३६ ॥ ।
अरिमण्डलख[५]ण्डनै पृषत्कैरवदीर्णा रुधिरापगावलीनाम् ।
अवनीपतयो रुषा निजानामधिविन्ना जननीममुष्य चक्रु ॥३७॥


असरा इमे तापसीया इति प्रविमुक्तवद्धि तत्प्राणस्त्यक्तवद्धि। अतिदृढस्पर्शैरिति यावत् । विशिखै बाणै । युधि कुत्तानि छिन्नानि विरोधिकुलानि शत्रुसघान् । कश्चित् एक भूतबर्ग । पृथिव्यादिपञ्चकदेह इति यावत् । जवेन अमुञ्चत तत्याज । मथुरित्यर्थे । कश्चिदन्य भूतवणं पिशाचहृन्द जवेन जय्हे गृहीतवान् । विरोधिकुलानीति योज्यम् । आहारार्थमिति भाव । ‘भूत क्ष्मादौ पिशाचादौ न्यारये सत्वोपमानयो' इति वैजयन्ती ॥ ३५ ॥

 देवव्रत इति । दलिता निहता वैरिण शत्रव येन तथोक्ते । अतएव देव व्रते भीष्मे दृष्टमात्रे दृष्टे सत्येव । नतु विलम्बादित्यर्थ । सारथ्यमात्रकरणे सारथ्यस्यैव करणे । नतु युद्धकरण इत्यर्थं । कृत सगर प्रतिज्ञा येन तथो क्त्तोऽपि मुरभित् श्रीकृष्ण रथस्य अर्जुनरथस्य मूले केवल मूलभाग एव चक्र रथाङ्ग नातिसम्रमयाचकार । भृश न भ्रामितवानित्यर्थ । कितु रथस्य मध्येऽपि चक्र सुदर्शन अतिसघ्रभयाचकार । भीष्मवधाय चक्रायुध ग्रहीतवानित्यर्थं । ‘चक सैन्ये रथावर्ते रथाब्रेऽन्वयराष्ट्रयो । शत्रभेदे पुमाश्चक्रवाके’ इति वैज यन्ती । अत्र दलितवैरिभीष्मावलोकनस्य विशेषणगल्या श्रीकृष्णस्य प्रतिज्ञात्यागपूर्वक चक्रभ्रामणहेतुलात्पदार्थहेतुत काव्यलिझम् ॥ ३६ ॥

 अरीति । आरिमण्डलस्य शत्रुसमूहस्य खण्डनै छेदकै अमुष्य भीष्मस्य पृषत्कै बाणै अवदीर्णा विदारिता अवनीपतय शत्रुभूपा रुषा कोपेनेवे त्युत्प्रेक्षा । अमुष्य जननीं गङ्गा निजाना रुधिरापगावलीना रक्त्तनदीसमूहाना अधिविन्ना कृतसापत्न्यका चक्त्रु । ताभिर्बहुसपत्नीका चक्त्रुरित्यर्थ । बहवो रक्त्तप्रवाहा प्रसस्रुरिति परमार्थे । सापत्न्यान पर दु ख स्त्रीणामिति भाव । अत्रात्महन्तार भीष्म साक्षात्प्रतिकर्तुमशक्त्ताना शत्रूणा तदीयजननीदु खजननोद्योगवर्णनात्प्रत्यनीकाळकार । ’प्रत्यनीक बलवत शत्रो पक्षे पराक्रम’ इति लक्षणात् । औपच्छन्दसिकम् ॥ ३७ ॥


  1. ‘असौ’ इति पाठ
  2. ‘मुरजित्' इति पाठ
  3. ‘च' इति पाठ
  4. ‘विभ्रमयांचकार' इति पाठ
  5. ‘खण्डकै ’ इति पाठ