पृष्ठम्:चम्पूभारतम्.pdf/३६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
चम्पूभारते


 स्वर्गौकसामजनि सा स्वयमेव काम्या
  कूलकषा कुशिकनन्दनकोपमुद्रा ॥ ३८ ॥
भीष्मस्य कन्याजनपाणिपीडा पितुर्मुदे त्यक्तवतोऽपि तस्य ।
सघात्सुराणा सति पुष्पवर्षे 'सतानलाभोऽजनि तद्विचित्रम् ॥ ३९ ॥
 इत्थ विधाय दिनमेकमसौ समीक
  पाश्चात्यभूधरमुपेयुषि पद्मबन्धौ ।
 प्रत्यर्थिनामिव चकार बळापहार
  स्वस्यापि चापशिखरादवरोपितज्य ॥ ४० ॥


नवाना देवानाम् । देवभूयगतानामिति यावत् । वर्गै धृन्दै स्वस्मिन् स्वीये घान्मि निवासे स्खर्गे सान्द्रे निबिडिते सति सकुचिता स्वल्णीभूता स्थिति आवास येषा तेषा स्वर्गौंकसा देवाना सा प्रसिद्धा कूलकषा अनि वार्या कुशिकनन्दनस्य विश्वामित्रस्य कोपमुद्रा त्रिंशङ्कुस्वर्गसृरूपकोपचिह्न स्वय आत्मभिरेव काम्या अभिलषणीया अजनेि अभूत् । अत्र देवाना स्वर्गस्थितिसकोचासबन्धेऽपि एव त्रिशङ्खगेकामनासबन्धेऽपि च सबन्धोक्तिरूप अतिशयोक्त्तिद्वय अङ्गाङ्गिभावेन सकीर्णम् ॥ ३८ ॥

 भीष्मस्येति । पितु शतनो मुदे सत्यवतीळाभरूपसतोषाय कन्याजनस्य पाणिपीडा विवाह त्यक्त्तवत विसृष्टवतोऽपि तस्य भीष्मस्य सुराणा सघात् पुष्पवर्षे सति सतानाना अपत्याना सतानाख्यसुरक्षपुष्पाणा च लाभ । अजनीति यत्, तदेतत् भार्याभावेऽपि सतानलाभ विशेष्यापेक्षि नपुसकत्वनिर्देश । विचित्रम् । ‘सतान सचये गोत्रे स्यादपत्ये सुरद्रुमे’ इत्यमर । अत्र सतानकारणदारपरिग्रहाभावेऽपि तल्लाभवर्णनात् क्ष्लेषप्रतिभोत्थापितो विभावनालकार ॥ ३९ ॥

 इत्थमिति । इत्थ उक्तप्रकारेण असौ भीष्म एक दिनम् । यावद्दिवसमि त्यर्थ । अत्यन्तसयोगे द्वितीया । समीक युद्ध विचाय पञ्चबन्धौ सूर्यं पश्चाद्भव पाश्चत्य भूधर अस्तशैळ उपेयुषेि प्राप्नुवति । अस्तगते सतीति यावत् । प्रत्यर्थिना शत्रूणा बलस्य सामर्थस्य अपहार नाशमिव । चापशिखरात् धनुष्कोटित अवरोषिता स्त्रसिता ज्या गुण येन तथोक्त्त सन् स्वस्य आत्मन बलस्य सैन्यस्य अपहार शिबिरप्रवेशनमपि चकार । ‘बल शक्ति र्बल सैन्यम्’ इति यादव । अत्र शत्रुणा भीष्मस्य च बलापहारेण क्ष्लेषभित्तिकालब्धैक्येनौपम्यस्य गम्यत्वात्तुल्ययोगिताभेद ॥ ४० ॥