पृष्ठम्:चम्पूभारतम्.pdf/३६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
नवम स्तबक ।


 इति नवदिनानि नवनवानि भु[१]जविलसितानि प्रकाश्य दशमेऽहि [२]पुनरसौ निजध्वजचिह्नमात्र वियदा[३]रोहति भगवति विवस्वति समरवर्षासमयशिखण्डिना [४]गाण्डीवधन्वना पुरस्कृत शिखण्डिन दृ[५]ष्ट्वा 'स्त्रीपूर्वोऽयम् । अमुना सह च योद्धव्यम्' इति निषिध्य हस्ततलनिरस्तधनुर्लस्तक प्रथम स्वदूरा[६]पसरणकुपितयेव सिजिन्या पश्चादतिदूरनिष्कासितै[७]र्विजयविपाठरादिवसावसान वि[८]दारितकलेवरतया नितान्ततान्त [९]शान्तमना शान्तनवोऽसौ स्वान्तनिहितरमाकान्त सुभटलोकसमुचिता शरशय्या क्रमादधिशिश्ये ॥


 इतीति । इत्युक्तप्रकारेण नवदिनानि नवनानि दिने दिने अभिनवानि भुजयोर्विलसितानि नियुद्धक्रीडा प्रकाश्य प्रकटीकृत्य । दशमे अह्रि दिने भगवति विवस्वति सूर्ये वियत् आकाश निजे ध्वजचिह्नस्य तालस्य प्रमाण चिह्नमात्रम् । प्रमाणे मात्रच् । आरोहति सति । समरमेव वर्षासमय तस्मिन् शिखण्डिना मयूरेण । तद्वदुल्लासभाजेत्यर्थ । गाण्डीव वन्वना अर्जुनेन पुरस्कृत शिखण्डिन द्रुपदपुत्र दृष्ट्वा । अय शिखण्डी पूर्व जन्मकाले स्त्री स्त्रीपूर्व । अमुना स्त्रीपूर्वेण शिखण्डिना सह न योद्धव्य युद्ध न कर्तव्यमिति । आलोच्यति शेष । निषिध्य तेन सह युद्ध विहाय हस्ततलेन निरस्त त्यक वनुष लस्तक मध्य येन तथोक्त । 'लस्तकस्तु बनुमभ्यम्' इत्यमर । विशिटवाचकाना सवि विशेषणे विशेष्यमात्रपरलान धनु शब्दवैयर्थ्यम् । प्रथम आदौ । सहितबाणाकर्षणसमय इति यावत् । स्वस्य सिञ्जिन्या आत्मन दूरमपसरणस्य आकर्णान्तमपसर्पणस्य करणेन हेतुना कुपितयेवेत्युत्प्रेक्षा । सिञ्जिन्या गाण्डीवगुणेन । पश्चात् अनन्तर अतिदूरे निष्कासितै नि सारितै विजयस्य अर्जुनस्य विपाठै बाणविशेषै आदिवसावसान सायकालपर्यन्त विदारित कलेवर शरीर यस्य तस्य भाव तत्ता तया हेतुना । नितान्त तान्त ग्लानिं प्राप्त शान्त प्राणिहिंसात विरत मनो यस्य तथोक्त । अतएवासौ शान्तनवो भीष्म । स्वान्ते मनसि निहित ध्यात रमाकान्त विष्णुमूर्ति येन तथोक्त सन् । सुभटलोकस्य महावीरजनस्य समुचिता शरमयीं शग्या क्रमातू शनै अधिशिश्ये शेते स्म ॥


  1. 'भुजलता' इति पाठ
  2. 'पुनरसौ' इति नास्ति कचित्
  3. 'आरोहति सति' इति पाठ
  4. 'गाण्डीविना' इति पाठ
  5. 'समीक्ष्य' 'विलोक्य' इति च पाठ
  6. 'अपसार' इति पाठ
  7. 'दूर' इति पाठ
  8. 'अबदारित' इति पाठ
  9. 'शा तनव शातमना स्वा त' इति पाठ