पृष्ठम्:चम्पूभारतम्.pdf/३७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
चम्पूभारते


पार्थे[१]न क्षितिविनिखातपुङ्खकाना
 बाणानामुपरि पितामह शयान ।
बभ्राज व्रणबिलवान्तरक्तबिन्दु-
 र्घाराणा घन इव शक्रगो[२]पवर्षा ॥ ४१ ॥
सवीक्ष्य तत्र [३]शयित तभिम शरेषु
 साक्रामिक गुणमिव प्रतिपद्यमान ।
भास्वानपि स्वयमुपात्तकरोष्मशान्ति
 पाश्चात्यसागरशरेषु शयाडुरासीत् ॥ ४२ ॥
जगति बिनुतकीतौं जामदश्यस्य शिष्ये
 कवलितरिपुवर्गे कालधर्म यि[४]यासौ ।
बहुसुरवरलाभाद्रुद्धकामोत्सवाना
 श्वशुरमरणदु स स्वर्वधूना बभूव ॥ ४३॥


 पार्थेनेति । पार्थेन अर्जुनेन क्षितौ भूमौ विनिखाता पुङ्खका बाणमूल भागा येषा तेशम् । शैषिक कप् । बाणाना उपरि शयान व्रणबिलेभ्य बाणक्षतरन्ध्रेम्य वान्ता नि सरन्त रक्तबिन्दव येन तथोक्त्त । पितामह भीष्म बाराणामुपरि शक्रगोपान्नाम रक्तकीटान् वर्षतीति वर्पी धन मेघ इव बभ्राज रेजे । उपमालकार । प्रहर्षिणी । ‘म्रौ ज्रौ गस्त्रिदशयति प्रहर्षिणीयम्’ इति लक्षणात् ॥ ४१ ॥

 सवीक्ष्येति । तत्र युद्धभुवि शरेषु शथित तमिम भीष्म सवीक्ष्य । सक्रमात् देहाद्देहान्तरप्राप्ते भवतीति साक्रमिक गुण प्रतिपद्यमान प्राप्नुवन्नि- वेत्युत्प्रेक्षा । स्वयमप्युपात्ता स्वीकृता करोष्मण भुजप्रतापस्य किरणौष्ण्यस्य च शान्ति उपरति येन तथोक्त । भास्खन् सूर्य । पाश्चात्यसागरस्य पश्चिमाब्धे शरेषु बाणेषु चलेषु च । शयालु शयनशील आसीत् । ‘शरो दर्भान्तरे बाणे शर दध्नि जलेऽपि च' इति विश्व ॥ ४२ ॥

 जगतीति । जगति मिनुता सस्तुता कीर्तिर्यस्य तथोक्त्ते । कवळेित नाशित रिपूणा वर्ग सघ येन तथोक्त्ते । जामदग्न्यस्य परशुरामस्य शिष्ये भीष्मे कालधर्मे पञ्चख यातु प्राप्तु इच्छौ यियासौ सति । ‘प्रपन्ने’ इति पाठान्तरम् । बहूना सुराणा देवभूयगताना भटानामेव वराणा पतीना लाभात् प्राप्ते हेतो । बद्ध कामोत्सव सभोग यासा तासा खर्वधूना अप्सरसा श्वशुरस्य


  1. बभ्राजे’ इति पाठ
  2. ‘कोप’ इति पाठ
  3. ‘तमिम शयित’ इति पाठ
  4. ’प्रपन्ने' इति पाठ