पृष्ठम्:चम्पूभारतम्.pdf/३७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
चम्पूभारते


अक्षौहिणीरवनिवल्लभवाहिनीना-
 मेकत्र गाढमिलिता सुतराम[१]सोढा।
सा युद्धभूमिरुपरीव समुत्पतन्ती
 सान्द्रा रज पटलिका समदृश्यताभ्रे ॥ ८ ॥
भेरीरवे गगनवा[२]हिनि बाहुलीला
 द्रोणस्य वोक्षितुमनोभिरद्दष्टपूर्वाम् ।
मध्ये विसृज्य दिवि जम्भभेिदो[३]ऽवकाश
 तस्थेऽभितस्त्रिदशकिन्नरयक्षसिद्धै ॥ ९ ॥

 ततस्ते [४]नरेन्द्रा सर्वेऽपि वसुधातलनिहितवामजानुभागा क्ष्वेलितमश्रमुदीर्य तूणीरपेटिक[५]समुत्थापिताञ्जीवाकर्षणसमुपजातत्वरान्परुषभीषणविषदिग्धान्विनतातनयनिबद्ध[६]स्पर्धास्तक्षकमुखान्बाणपन्नगान्नभोमुवि[७] चिराय नर्तयन्त प[८]रस्परपरिपन्थिना प्राणपवमानमपीप्यन् ॥


 अक्षौहिणीरिति । एकत्र एकस्मिन् देश एव गाट निबिड यथा तथा मिलिता अवनिवल्लभयो धर्मराजदुर्योधनयो सबन्धिनीना वाहिनीना सेनाना अक्षौहिणी अक्षौहिणीसरयकृन्दानि सुतरा असोटवा अभृत्वा उपरि समुत्पतन्ती सा युद्धभूमिरिवेत्युत्प्रेक्षा । सान्द्रा रज पटलिका धूलीपटल करितुरगादिपदघट्टनजन्य अर्धे आकाशे समदृश्यत । लोकैरिति शेष ॥ ८ ॥

 भेरीति । भेरीरवे विजयदुन्दुभीना भाकारे गगनवाहिनि आकाशे व्याप्नुवति सति पूर्वं क्दाचिदप्यदृष्टा अदृष्टपूर्वा द्रोणस्य चापाचार्यस्य बाह्वोर्लीला युद्धविलास वीक्षितु मनो येषा तै त्रिदशै देवै किनरै यसै सिद्धेश्च जम्भभिद इन्द्रस्य अवकाश मध्ये विसृज्य दिवि आकाशे अभित तस्थे स्थितम् । तिष्ठतेर्भावे लिट् ॥ ९ ॥

 तत इति । तत ते सर्वेऽपि नरेन्द्रा राजान एव विषवैद्या इति क्ष्लिष्टरूपकम् । ‘नरेन्द्रो विषवेधेऽपि’ इति वजयन्ती । वसुधाया भूमे तले निहित निक्षिप्त वामजानुभाग यैतयोक्ता सन्त । एकत्र धनुराकर्षणदाट्र्याय, अन्यत्र सर्पनर्त नायेति भाव । क्ष्वेलित सिंहनाद एव मन्त्र सर्पवाग्बन्धनविद्याविशेष तमुदीर्य प्रकटग्य तूणीर निषङ्ग एव पेटिका तस्मात् समुत्थापितान् बहिर्नीतान् जीवाया गुणस्य आकर्षणे जीवस्य आकर्षणे अपहरणे विषये च समुपजाता त्वरा येषा


  1. ‘असोढा’ इति पाठ
  2. ‘शायिनि’ इति पाठ
  3. ‘मिदे’ इति पाठ
  4. ‘सर्वेऽपि नरेद्रा’ इति पाठ
  5. पेटक’ इति पाठ
  6. ‘स्पर्धाभरास्तक्षक इति पाठ
  7. ‘चिर' इति पाठ
  8. ‘परस्पर ' इति पाठ