पृष्ठम्:चम्पूभारतम्.pdf/३७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
चम्पूभारते


,

अन्येधुर्द्रोणसचोदितनृपवचने तस्थिवद्भित्रिगर्तै-
 राहूतेऽन्यत्र योद्ध गतवति विजये कृष्णक्कृप्तप्रशसे ।
प्रातस्ते धार्तराष्ट्रा परबलमभजन्वीतभीकैरनीकै-
 र्दावज्वालेन शून्य वनमिव चमरा वल्गवद्भि स्वयूथै ॥१६॥
भारद्वाजोऽपि तस्मि[१]न्नहनि कुरुपतेर्वाञ्छितार्थं विधास्य-
 त्रन्ध्रान्वेपैकतानो र[२]थमविनिकषा स्थापिते धर्मसूनो ।
कृष्णाभ्या रक्षणाय प्रथितभुजमदे सत्यजित्युत्स्फुलिङ्ग
 दृष्टयोर्युग्म निधा[३]य प्रतिभटपृतनाकुक्षिमाविक्षदेक ॥१७॥
 वि[४]द्धा चिरेण युगमात्रसपास्य रथ्या-
  निर्धूनितेन सरुषा गुरुणा निकृत्तम् ।
,


तिजलादि तस्य शरवीचिभि बहुतरजलतरगान्तर्हितत्वमनुरूपमित्यानुरुग्यघटनात्मक समाळकारश्च द्वयो ससृष्टि ॥

 अन्येधुरिति । अन्येधु परस्मिन् दिवसे प्रात द्रोणेन सचोदितस्य त्रिगर्तै सह अर्जुनस्य युद्ध घटयेति प्रेरितस्य नृपस्य दुर्योधनस्य वचने तस्थिवद्भि तिष्ठद्भि अतएव त्रिगतै सुशमादिभि योध्दु आहूते कृष्णेन क्लृप्ता सघटिता प्रशसा ‘आछूतान्नान्यतो गच्छेयम् इति विजयव्रतस्तुति यस्य तस्मिन् अतएव विजये अजुने अन्यत्र गतवति सति ते धार्तराष्ट्रा वीता भी येषा तै गतभयै । अर्जुनराहित्यादिति भाव । शैषिक कप् । अनीकै बलै सह परेषा पाण्डवाना बळ चतुरङ्ग चमरा भृगविशेषा वल्गवद्भि स्वै यूथै सजातीयसघै सह दावज्वालेन शून्य वनमिव अभजन् प्राप्तवन्त । ‘द्वयोज्वालकीलौ’ इत्यनुशासनाज्वालेनेति पुस्त्वनिर्देश । उपमालकार ॥ १६ ॥

 भारद्वाज इति । अपि किचेत्यर्थ । तस्मिन्नहनि कुरुपते दुर्योधनस्य वाञ्छितमर्थ धर्मराजग्रहणरूप विधास्यन् करिध्यन् अतएव रन्ध्रस्य परिच्छिद्रस्य अन्वेषे विचारणे एकतान अनन्यवृत्ति भारद्वाज धर्मसूनो रक्षणाय रथ अधिनिकषा तद्रथस्य समीपे । ’अभित परित - ’ इत्यादिना द्वितीया । कृष्णाभ्या श्रीकृष्णाजुनाभ्या स्थापिते निवेशिते प्रथित प्रसिद्ध भुजयो मद दर्प यस्य तस्मिन् सत्यजिति नाम पाञ्चाले उद्यन्त स्फुलिङ्गा क्रोधाग्निकणा यस्मात्तत् दृष्टथो नेत्रयो युग्म निवाय । तमेव दर्शदर्शमित्यर्थ । एक अर्जुनराहित्यादप्रतिभट सन्नित्यर्थ । प्रतिभटपृतनाया शत्रुसेनाया कुक्षि मध्यभाग आविक्षत् प्रविष्टवान् । स्रग्धराद्वयम् ॥ १७ ॥

 विद्धवति । रथ्यान् द्रोणरथाश्वन् अपास्य विहाय युगमात्र अश्वस्कन्धवा-


  1. ‘प्रसङ्गे’ इति पाठ
  2. रथमथ' इति पाठ
  3. निखाय’, ‘विधाय' इति पाठ
  4. युद्धवा' इति पाठ