पृष्ठम्:चम्पूभारतम्.pdf/३८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८१
दशम स्तबक ।


,

 केतून्पातयतो रथाञ्क्ष्लथयतो द्वन्तावलान्कृन्ततो
  घोटान्पाटयतो विभिद्य गदया भीमो द्विपान्विद्विषाम् ।
 सग्रामाङ्गणरक्तवारिलहरीसलक्ष्यमाणस्वक-
  च्छायामात्रसहायमेव विदधे त सुप्रतीक क्षणात् ॥ २२ ॥
पादाग्रहस्तरदनप्रतिघातलीलाभग्नारिरक्तमसृणो भगदत्तदन्ती ।
आलक्ष्यत क्षितिभृतस्तटवप्रकर्मण्यालिप्तगात्र इव गैरिककर्दमेन ॥ २३ ॥
 तदनु करटिमल्ल तत्र वीक्ष्यापतन्त
  दलितपरबल त दन्तकुन्त वहन्तम् ।
 चकितहृदयवृत्ते स[१]गरे वायुसूनो-
  र्जनकगुणसमृद्धिर्जङ्घयोराविरासीत् ॥ २४ ॥
,


 केतूनिति । अथ केतून् पातयत , रथान् क्ष्थयत शिथिलान् कुर्वत , दन्तावलान् गजान् कृन्तत छिन्दत , घोटान् अश्वान् पाटयत विदारयत, विद्विषा द्विपान् गजान् गदया विभिद्य भीम त सुप्रतीक भगदत्तगज क्षणात् सग्रामाङ्गणे युद्धदेशे रक्त्तवारिणा शोणितोदकाना लहरीषु महातरगेषु सलक्ष्यमाणा परिदृश्यमाना स्वका च्छाया प्रतिबिम्व एव च्छायामात्र सहाय यस्य तथोक्त्तम्। विदधे चक्रे । तदितरान् सर्वानप्यवधीदित्यर्थ । अत्र सुप्रतीकभि- न्नसर्वगजवधस्य स्वच्छायामात्रतत्सहायकखरूपेण वर्णनात्पर्यायोक्त्तालन्कार । शार्दूलविक्रीडितम् ॥ २२ ॥

 पादेति । पादानै भन्नषादै चतुर्भि हस्तेन शुण्डया रदनाभ्या दन्ताभ्या च प्रतिघालीलया प्रहारक्रियया भग्नना अरिदन्तिना शत्रुगजाना रक्तेन मसृण । लिप्त इत्यथ । भगदत्तस्य दन्ती सुप्रतीक । क्षितिभृत अद्रे तटे वप्रकर्मणि उत्खातकेल्या गैरिकस्य रक्तधातुविशेषस्य कर्दमेन पङ्केन आ समन्तालिप्त गात्र यस्य तथोक्त्त इवेत्युत्प्रेक्षा । आलक्ष्यत ददृशे । लोकैरिति शेष । लक्षते कर्मणि लङ् । यत्त्वत्र पादाना अग्रहस्ताना शुण्डाग्राना रदनाना च प्रतिघातेनेति, यच्च वात्रैव गैरिकाणा मन शिलानामिति व्यारयानुसारेण ‘धातुर्मन शिळाथद्वेगैरिक तु विशेषत’ इत्यमरकोशलेखन नृसिहस्य, तत्तस्य विज्ञमन्यस्य न चोद्यम् । अग्रहस्तस्यैक्य रदनयोद्वित्व गैरिकमन शिलयोर्विजातीयत्व चानुभवता सहृदयाना पर प्रसिद्धिविरुद्धवाख्यो दोषस्तु हृदय धुनोति ॥ २३ ॥

 तदन्विति । तदनु तत्र युद्धभूमौ दन्त कुन्त आयुधविशेष इव त वहन्त अतएव दलित विदारित परबल शत्रुसैन्य यस्मिस्तत्तथा । आपतन्त आगच्छन्त त करटिमल गजश्रेष्ठ सुप्रतीक वीक्ष्य सगरे युद्धे विषये चकिता भीता हृदयस्य


  1. ‘धावतो’ इति पाठ