पृष्ठम्:चम्पूभारतम्.pdf/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८३
दशम स्तबक ।


,

 पार्थस्य तस्य तदनु प्रहिता वधाय
  भङ्ग ययौ पथि शरैर्भगदत्तशक्ति ।
 प्रस्थानकर्मसमये भय[१]दायि तस्या
  नागस्य दर्शनमजायत यत्समीपे ॥ २६ ॥

अथ तेन हरे सुताय भुक्त हृदि [२]कृत्वा स्वयमात्मदैवमस्रम् ।
तदिद वनमाळया मुकुन्द सहवास्तव्यकुटुम्बितामनैषीत् ॥ २७ ॥
स फल्गुनस्तत्र चकार बाणैश्रिकीर्षुमन्त्याक्षरवार्जित स्वम् ।
[३]कुलाचळात्पीवरमप्यराते करेणुमाद्याक्षरयोगशून्यम् ॥ २८ ॥
,


 पार्थस्येति । तदनु सुप्रतीकशुण्डाप्रहारव्यसनानन्तरम् । तस्य पार्थस्य अजुनस्य वधाय वध कर्तुमिति ‘क्रियार्थ-' इत्यादिना चतुर्थी । प्रहिता प्रेरिता भग दत्तस्य शक्ति नाम आयुध पथि मार्गमध्ये शरै अजुनबाणै भङ्ग छेद ययौ । शक्ति सामथ्र्यं भञ्ज पराजय ययावित्यपि प्राहु । यत् यस्मात् तस्या भग दत्तशक्त्ते प्रस्थानकर्मण अजुनवधार्थं प्रयाणस्य समये भय भङ्गजन्य ददाती ति तद्दायि नागस्य सर्पस्य गजस्य च । ’गजेऽपि नागमातङ्गो’ इत्यमर । दर्शन समीपें । नतु किचिहूर गमनानन्तरमित्यर्थ । अजायत अभूत् । तस्माद्भङ्ग ययावित्यन्वय । अत्र नागदर्शनस्य हेतो भन्नस्य हेतुमतश्च द्वयोरुक्त्तर्हेतुरलै- कार ।नागशब्दश्लेषभित्तिकालब्धसर्पगलदूयाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । ‘शशसर्पवृकादीना दर्शनाद्भयमाप्रुयात्’ इति शाकुना ॥ २६ ॥

 अथेति । अथ शक्त्तिभङ्गानन्तरम् । तेन भगदत्तेन हरे इन्द्रस्य सुताय अजुन हन्तुमिति पूर्ववच्चतुर्थी । मुक्त आत्मा स्व विष्णु दैव यस्य तथोक्तम्। अस्त्र वैष्णवास्त्र विष्णोर्भूप्रर्थनया लब्ध्वा पित्रा दत्त मुकुन्द श्रीकृष्ण स्त्रय हृदि कृत्वा वक्षसा गृहीत्वा । अर्जुन ततो मोचयित्वेति यावत् । तत् वक्षसा गृहीतमिद वैष्णवास्त्र वनमालया सह वास्तव्य एकत्रवासी य कुटुम्बी गृही तस्य भाव तत्ता ता तया सह स्थितिं अनैषीत् प्रापयामास । तदस्त्र वनमालेव कृष्णस्य वक्षसि काचिन्मालाभूदित्यर्थ । ‘वज्र तृणप्रायता वह्नि शीतलता हिम दहनतामायाति यस्येच्छया’ इत्यागमादिति भाव । औपच्छन्दसिकम् ॥ २७ ॥

 स इति । स फल्गुन अर्जुन स्व आत्मान तत्र तदानीं अन्त्याक्षरेण फल्गु- नेति नामनि अन्तिमवर्णेन नकारेतेतियावत् । वर्जित रहित फल्गुम्। असारमित्य र्थ । वाच्यवत्फल्ग्वसार च' इति यादव । चिकीर्षु कर्तुमिच्छु कि च कुलाचलात् हिमवदादेरपि पीवर पृथुल अराते शत्रो भगदत्तस्य करेणु गज सुप्रतीक आद्याक्षरस्य क्कारस्य योगेन सबन्धेन शून्य रेणुम् । लवशश्छिन्नमित्यर्थं ।


  1. ‘दयिनस्य’ इति पाठ
  2. कृत्य इति पाठ
  3. ‘क्रौञ्चाचलात्' इति पाठ