पृष्ठम्:चम्पूभारतम्.pdf/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
चम्पूभारते

,

मदपङ्कललामगन्धिफा[१]ळ मघवत्सूनुररेर्निपात्य शीर्षम् ।
पृथुला भूदमा[२]ददे ततोऽसौ पृथिवीगन्धवतीति गौतमोक्ते ॥ २९ ॥
 भगदन्ते वध याते सह मत्तेन द[३]न्तिना ।
 सत्यजिन्नाशशोकार्तिमत्यजन्पा[४]ण्डुनन्दना ॥ ३० ॥
,

 तदनु नानारुणे तेजसि सध्ययापि तादृशे कलशयोनि स्वयनाम्ना गुरुरपि व्यथयापि तादृग्विधस्त्रिभिरेवाङ्गैर्विरलितेन बलेनानुगम्यमानस्ता [५]दात्विक स्वमनोरथमिव दूषयतामुपगतमावास शनै शनैराववृत्ते ॥


चकार । अत्र फल्गुनकरेणुशब्दयोस्तदर्थयोश्च अभेदाभिमानान्नावाच्यवचनत्वदोष । अत्र फल्गुनस्यान्त्याक्षरराहित्यचिकीर्षा सुप्रतीकस्य स्वस्यैव तद्विरुद्धाधक्षरशून्यत्वप्राप्तेविषादन नामालकार । ‘इष्यमाणविरुद्धाथसप्राप्तिस्तु विषादनम्' इति लक्षणात् ॥ २८ ॥

 मदेति । तत सुप्रतीक्वधानन्तरम् । असौ मघवत इन्द्रस्य सूनु अर्जुन मदपङ्केन कस्तूर्या यल्ललाम तिलकभूषण तस्य गन्धोऽस्यास्तीति गन्धि फाळ ललाट यस्य तथोक्तम् । अतएव अरे भगदत्तस्य शीर्ष शिर निपात्य पातर्यित्वा । भुवीती शेष । पृथिवी भूमि गन्ध अस्या अस्तीति गन्धवती इत्युक्त्तप्रकाराया गौतमस्य नैयायिकस्य उक्ते वाक्यस्य पृथुला महतीं मुद आददे चकार । तदुक्ति प्रत्यक्षप्रमणसिद्धामकरोदित्यर्थं । अत्रैकत्र विलसत्कस्तूरी तिलकफालभगदत्तशीर्षपातनेन सर्वत्र तस्या गन्धवत्त्वबोवकगौतमोक्त्तिप्रमोदकरणासबन्धेऽपि सबन्धोक्त्तेरतिशयोक्ति । औपच्छन्दसिकम् ॥ २९॥

 भगदत्त इति । भगदत्ते मत्तेन दन्तिना सुप्रतीकेन सह वव याते प्राप्ते सति पाण्डुनन्दना युद्धिष्ठिरादय सत्यजित पाञ्चालस्य नाशेन द्रोणकृतेन य शोक तस्मादार्ति व्यथा ता अत्यजन् तत्यजु । शत्रूणा व्यसनेन महदप्यात्मव्यसन निरस्यत इति भाव ॥ ३० ॥

 तन्विति । तदनु नाम्ना भरणे तेजसि सूर्ये सध्यया सायकालिकया । तद्रागेणापीति यावत् । तादृशे अरणे सति । ‘अरुणो भास्करेऽपि स्याद्वर्णभेदे स तु त्रिषु' इत्यमर । कलशयोनि द्रोण । स्वय नाम्ना गुरुरपि व्यथया पराभवदु खेनापि तादृग्विव गुरु दुर्भर सनित्यर्थ । त्रिभिरङ्गै तुरगरथपदातिर भिरेव विरलितेन असान्द्रेण । तुरीयाङ्कस्य गजरूपस्य भीमेन भङ्गत्वादितिभाव । बलेन अनुगम्यमानश्च सन् । तदा तस्मिन् काले भव तादात्विकम् । ‘तत्काले तु तदात्व स्यात्' इत्यमर । स्व खीय मनोरथ युधिष्ठिरग्रहणविषयक


  1. ‘भाल' इति पाठ
  2. ‘आदधाव’ इति पाठ
  3. ‘हस्तिना’ इति पाठ
  4. ‘पार्थसैनिका’ इति पाठ
  5. ‘तादात्विकमनोरथ इति पाठ