पृष्ठम्:चम्पूभारतम्.pdf/३८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८७
दशम स्तबक ।


भ्राणस्य द्रोणस्य सकाशाद्विनिर्गता निद्रासखीं विचेतुमिव सा निशापि तरसा निरगात् ॥

,

 अपरेधुसौ वृतो बलौघैरथ भेरीनिनदैर्नभो विभिन्दन् ।
 कवची विशिखी रथी शरासी कळशीसूनुरवाप यु[१]द्धभूमिम् ॥३६॥
 द्रोण[२]स्य सेनाचरधूलिपाली क्षोणेस्तु नग्नकरणी बभूव ।
 घटाथ तस्या कटदानपूरै पट पुन सघटयाचकार ॥ ३७ ॥
 आश्चर्यस्थूलल[३]क्ष तदनु दिविषदामन्तरिक्षस्थिताना
  क्षोणीन्द्राणा रिपूणामसुमृगहरणे कूटयक्ष्त्रमाणम् ।
 गन्धर्वै केसराढ्यैर्मदमधुभिरिभै केतुपत्रै शताङ्गै
  पद्मव्यूह व्यतानीत्प्रधनभुवि गुरु सायुगीनाग्रगण्य ॥३८॥
,


गच्छति स्म । निर्निद्रमेव द्रोण सर्वां रात्रि व्यनैषीदित्यर्थ । अत्र रणरणिक शब्दस्त्रीलिङ्गादिमहिम्ना अन्यकान्ताक्ष्लिष्टप्रियाविलोकनकुपितनिष्कान्तनायिकान्वेषिसखीवृत्तान्तप्रतीते समासोक्ति । तस्याश्च रूपकानुप्राणितोत्प्रेक्षायाक्ष्चैकवाचकानुप्रवेशसकर ॥

 अपरेद्युरिति । अपरेद्यु परस्मिन् दिवसे असौ कळणीसूनु द्रोण । क्खचमस्यास्तीति कवची । एवमने । विशिखी बाणवान् । रथी । शरासी चापवाश्च सन्न् । निजैर्बलौघे सह रथाना निनदै नेमिघण्टाघणघणात्कारै भेरीणा निनहै भाकरैश्च नभ आकाश विमिन्दन् युद्धभूमि अवाप । औपच्छन्दसिम् ॥।३६ ॥

 द्रोणस्येति । द्रोणस्य सेनाभ्य चरति उद्च्छतीति सैनाचरी च सा धूलि पाला रज पटल क्षोणे भुवस्तु नग्नकरणी विवस्त्रत्वकारिणी । समुद्रशोषणीति थावत् । बभूव । समुद्रस्य तद्वस्त्रस्थानीयत्वादिति भाव । अथ घटा तदीयगज पङ्क्त्ति । ‘घटा गोष्ठथा हस्तिपङ्क्त्तौ’ इत्यमर । कटयो कुम्भयो दानपूरा मदजलप्रवाहा तस्या क्षोणे पट समुद्र पुन सघटयाचकार योजयामास । अब्धि पूरयामासेत्यर्थ । अत्र नग्नीकृताया भुव पुन पटसघटनरूपपूर्वावस्थानुवृत्ते पूर्वरूपालकारभेदस्य शोषणपूरणासबन्धेऽपि तत्सबन्धोक्त्तिरूपातिशयोकिद्वयोजीवितत्वात् द्वयोरङ्गाङ्गिभावेन सकर । 'द्रोणस्य इत्येतत्पद्यमनेकमूलपुस्तकेषु न दृष्टमपि लिखितम् । उक्त्तसकरस्य लाटानुप्रासाभ्यामेकवाचकानुप्रवेशसकरक्ष्चेत्यपि प्राहु ॥ ३७ ॥

 आक्ष्चर्येति । तदनु रणरङ्गप्रवेशानन्तरम् । अन्तरिक्षस्थिताना दिविषदा देवाना आश्चर्यस्य स्थूललक्ष बहुप्रदम्। मुख्यजनकमिति यावत् । रिपूणा क्षोणीन्द्राण शत्रुराजाना असव प्राणा एव मृगास्तेषा हरणे विषये कूटयन्त्र शिला-


  1. ‘युद्धरङ्गम् इति पाठ
  2. क्ष्लोकोऽय कच्चिन्न दृक्ष्य
  3. ’लक्ष्य’ इति पाठ