पृष्ठम्:चम्पूभारतम्.pdf/३८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
चम्पूभारते


,

समयेऽत्र [१] निशम्य वैरिवृत्त तपस सूनुरभाषताभिमन्युम् ।
अयि वत्स पितान्यतोऽधुना ते तव भारोऽजनि सर्वसैन्यरक्षा ॥३९५॥
कवच प्रतिमुञ्च धत्स्व चाप भज धैर्य परितो विधेहि योधान् ।
अधिरोह शताङ्गमाविश त्व कमलव्यूहमरीन्निषूदयस्व ॥ ४० ॥
,

 इति राज्ञो निदेश मौलिदेशे निवेश्य योद्रु प्रतिष्ठमाने जयनिसाणभेरीपटहपणवाधैर्वीधैर्गगनशायिने गुणाय सौखशा[२]यनिकायमाने लीळया क[३]मलव्यूहमवगाह्य बाळेऽपि स्वयमेकाकिनि निजको-


दार्वादिनिर्मितो यन्त्रविशेष तद्वदाचरन्त कूटयन्त्रायमाणम् । ‘उन्माथ कूटयन्त्र स्यात्' इत्यमर । केसरै स्कन्धलोमभिरेव किञ्जल्कै आढ्यै समृद्धै । ‘केसरोऽस्त्री स्कन्धलोन्मि किञ्चल्के बकुलेऽपि च' इति वैजयन्ती । गन्वर्वै । मद दानोदकमेव मधु मकरन्द येषु तै इमै गजै । केतव पताका एव पत्राणि येषु तै शताङ्गै रथैश्च पद्मव्यूह पद्मकारेण सैन्यविन्यासमेव कमलवृन्दमिति क्ष्लिष्टाक्ष्लिष्टसावयवरूपकम् । सायुगीनाना रणे साधूना अग्रगण्य गणनीय गुरु द्रोण प्रवनभुवि युद्धभूमौ व्यतानीत् निर्मितवान् । शताङ्गेरित्यत्र शत अङ्गनि पत्राणि येषा तैरिति व्याख्यान तुकेतुपत्रेरिति विशेषणेन वैयर्थ्यद्रान्धवैरिभैरिति पदद्वये तु केतुपत्रेरति वैयभ्यद्भन्धवैरिमैरिति तथा कल्पनायोगेन प्रक्रमविरोधाच्चोपेक्षितम् । रत्रग्धरा ॥ ३८ ॥

 समय इति । अत्र अस्मिन् समये तपस यमस्य सूनु युधिष्ठिर वैरिणा शत्रूणा वृत्त पद्मव्यूहनिर्माणवृत्तान्त निशम्य श्रुत्वा अभिमन्यु आर्जुनि प्रति अभाषत वक्ष्यमाणप्रकारेणोक्तवान् । अयि वत्स हे पुत्र, यत् यस्मात् ते पिता अर्जुन अधुना अन्यत सशप्तकयुद्धदेशे भवति । तस्मात् कारणात् सर्वेषा सैन्याना रक्षा तव भार निर्वाह्य अजनि । औपच्छन्दसिकम् ॥ ३९ ॥

 कवचमिति । कि च कवच प्रतिमुञ्च धारय । चाप धत्स्ख गृहाण । धेर्ये भज । योधान् परित विधेहि सर्वत्र यथार्ह नियमय । शताङ्ग रथ अधिरोह । कमलव्यूह पद्मव्यूह आविश । अरीन् शत्रून् निषूदयस्ख मारय । त्वमिति सर्वत्र योज्यम् ॥ ४० ॥

 इतीति । इत्युक्तप्रकार राज्ञ धर्मराजस्य निदेश आज्ञा मौलिदेशे शिरसि निवेदय । तेन गृहीत्वेति यावत् । योद्ध प्रतिष्ठमाने निर्गच्छति जयनि साण भेरीपटह पणवश्च आद्या येषा तै वाधै । तद्धनिभिरित्यर्थ । गगने शेत इति शायिने गुणाय शब्दाय सौखशायनिकायमाने सुखस्खपनपृच्छक इव स्थिते । तदुत्पादक इति । यावत् । स्वय आत्मनि बालेऽपि एकाकिनि असहाये तस्मि- न्सौभद्रे अभिमन्यौ । लीलया कमळव्यूह अबगाह्य प्रविश्य निजस्य कोदण्डस्य सबन्धिन्या चण्डिमसपदा प्रतापसमृध्धा कौरवचमू क्षोभयमाणे व्याकुलीकुर्वति


  1. ‘प्रतिपद्य इति पाठ
  2. ‘शायि” इति पाठ
  3. ‘पह्ययूहगर्भ’ इति पाठ