पृष्ठम्:चम्पूभारतम्.pdf/३९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९१
दशम स्तबक ।


,

 आश्चर्यकर्मसु कृतेष्वपि हर्षभारा-
  न्मोक्तु मुहुर्मुहुरमुष्य शिरोजवन्धे ।
 दृष्टास्तदा सुमनसो दिवि कर्तृभूता
  नाकेन्द्रनन्दनवने न तु कर्मभूता ॥ ४७ ॥
अमुष्य कोदण्डमखण्डयद्रवे सुतो रथाश्वान्प्रममाथ कुम्भज ।
कृप कृ[१]णत्ति स्म जवेन सारथि व्यपाटयत्केतुप[२]ट गुरो सुत ॥४८॥
 एकाकिन परिभवाय बहून्प्रवृत्ता-
  नेतानवेक्ष्य निखिलोऽपि निलिम्पवर्ग ।
 मन्दारशाखिकुसुमानि यथाभिमन्यौ
  निन्दारवारिपुषु तस्य तथाभ्यवर्षत् ॥ ४९ ॥
,


मोक्तुमिच्छु मुमुक्षु अतएव भीषण भयकर विबुधेन्द्रपौत्र अभिमन्यु अभिवीक्ष्य रणाङ्गणे जना तस्य कृपाचार्यस्य जनने विपदि मरणेऽपि च विषये शर एव हेतुरिति मेनिरे । अनेनाय न जीवतीति निश्चिक्युरित्यर्थं । कृपस्य,

शरजन्त्व प्रसिद्धम् । मञ्जुभाषिणी ॥ ४६ ॥

 आश्चर्येति । आश्चर्यकरेषु कर्मसु युद्धेषु । इति शाकपाथिवादित्वात्समास । कृतेषु सत्खपि । अमुष्य अभिमन्यो शिरोजबन्धे वम्मिल्ले हर्षभारात् सतोषातिशयात् मुहुर्मुहु मोक्त्तु वर्षितु कर्तृभूता । तत्तादात्म्याश्रया कर्तार इति यावत् । एवमग्रेऽपि । सुमनस देवा दिवि आकाशे दृष्टा । कर्मभूता कर्माणि सुमनस पुष्पाणि तु । नाकेन्द्रस्य स्वर्गाधिपस्य नन्दनवने न दृष्टा । उभयत्र लोकैरिति शेष । देवा कत्पकुसुमानि नि शेषमभिवर्ष्य तत कुसुमदारिद्यात्तूष्णी बभूवुरित्यर्थ । ‘सुमना पुष्पमालत्योस्त्रिदशे कोविदेऽपि च' इति विश्व । अत्र सुमनसा कर्तृत्वकर्मत्वविरोधस्य क्ष्लेषेणाभासाद्विरोधाभासस्य च नन्दनवने निष्कुसुमत्वासबन्धेऽपि सबन्धोक्त्तिश्च ससृष्टि ॥ ४७ ॥

 अमुष्येति । अथ रवे सुत कर्ण अमुष्य अभिमन्यो कोदण्ड चाप अखण्डयत् चिच्छेद। कुम्भज द्रोण रथस्य अश्वान् प्रममाथ बिभेद । कृप सारथि जवेन कृणत्ति स्म चिच्छेद । गुरो सुत अश्वत्थामा केतो पट पताका व्यपाटयत् विपाटितवान् । वशस्थम् ॥ ४८ ॥

 एकाकिन इति । एकाकिन एकस्य परिभवाय तिरस्कार कर्तु इति ‘क्रिया र्य’- इत्यादिना चतुर्थी । प्रवृत्तान् उधुक्तान् बहून् एतान् कर्णादीनवेक्ष्य । निखिलोऽपि सकलोऽपि निलिम्पाना देवाना वर्ग सध अभिमन्यौ मन्दारशाखिकुसुमानि यथा अभ्यवर्षत् । अतिधीरोऽय बहुभिरसहायो युध्यतीत्याश्चर्यादिति


  1. ‘पटात्' इति पाठ
  2. ‘कृणाति स्म शरेण’ इति पाठ