पृष्ठम्:चम्पूभारतम्.pdf/३९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९३
दशम स्तबक ।


 [१]तदनु सेनयोस्तयो वेलितरुदिते अपि स्पर्धजनितया परस्परविजिगीषुतयेव व्योमसीमानमुदलङ्घयताम् ॥

 [२]तदानीं नियमवृद्धपरिषदूर्ध्वविक्षिप्तकरपुटजलाञ्जलिक्षालनादिव व्यप[३]यातमहोष्मणि पूषणि तौ द्वावपि बलौघौ नि[४]जनिजस्कन्धावारानुसधानाय निरगच्छताम् ॥

,

अथ त्रिगर्तानपि तान्क्षुरप्रै सहस्रगर्तान्विरचय्य गात्रे।
विनैव हेतु व्यथमानचेता बिडौजसोऽपि न्यवृतत्कुमार ॥५३॥
बाष्पायते दृष्टियुग कराग्राच्चापो गलयन्तरुदेति ताप ।
फल किमेतस्य भविष्यतीति विचिन्तयन्धाम विवेश राझ ५४॥
,


पातयाबभूवु । बहुभिरेकस्य मारणान्न पर वीराणामपकीर्तिकरमिति भाव । सहोक्त्तिरलकार । औपच्छन्दसिकम् ॥ ५२ ॥

 तदन्विति । तदनु अभिमन्युपतनानन्तर तयो सेनयो कौरवपाण्डवययो क्ष्वेलित सिंहनाद रुदित रोदन ते द्वे अपि । स्पर्धया आत्मोत्कर्षों भिनिवेशेन जनितया परस्पर विजिगीषुतया । जयेच्छयेवेत्युत्प्रेक्षा । व्योम्न सीमान गगनान्तभाग उदलड्घयता अतिचक्रमतु । अभिमन्युवधादुञ्चै कौरवा जगर्जु , पाण्डवा रुरुदुरित्यर्थे ॥

 तदानीमिति । तदानीं पूषणि सूर्ये नियमैस्तपोभि वृद्धया पूर्णया परिषदा द्विजसमाजेन ऊर्ध्व विक्षिप्तै प्रेरितै करपुटे जलाञ्जलिभि क्षालनात् सेकादिवेत्युत्प्रेक्षा । व्यपयात निरस्त महान् ऊष्मा औष्ण्य यस्य तथोक्त्ते । अस्त गच्छति सतीत्यर्थ । तौ द्वावपि बलौघौ कौरवपाण्डवसैन्यसमूहौ । निजस्य निजस्य प्रत्येकमात्मीयस्य स्कन्धावारस्य शिबिरस्य अनुसधानाय सगमनाय निरगच्छता निर्गतवन्तौ ।

 अथेति । अथ बिडौजस इन्द्रस्य कुमार अर्जुनोऽपि त्रिगर्तान्। व्रणजन्यरन्ध्रत्रययुक्त्तनपि त्रिगर्तसज्ञाक्ष्चेति भाव । तान् सुशर्मादीन् । गात्रे शरीरे क्षुरप्रै नाम बाणै सहस्र गर्ता येषा तान् तथोक्कान् । विरचय्य कृत्वा । हेतु दु स्त्रकारण विनापि व्यथमान दु खापमान चेत यस्य तथोक्त्त सन् । न्यवृतत् शिबिरं प्रति प्रत्यावृत्तवान् । विरोधाभास ॥ ५३ ॥

 बाष्पायत इति । दृष्टयो नेत्रयो युग बाष्पायते बाष्प जनयति । कराग्राच्चाप गलति । अन्त मनसि ताप सताप उदेति आविर्भवति । एतस्य


  1. ‘तदनु तत्र तयो सेनयो ’ इति पाठ
  2. ‘तदानी खलु जगति नियमि’ इति पाठ
  3. ‘ब्यपेत’ इति पाठ
  4. निज’ इति नास्ति कचिव