पृष्ठम्:चम्पूभारतम्.pdf/३९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
चम्पूभारते


तत्राश्रुने[१]त्रानथ सर्वबन्धून्निशाम्य [२]पुत्रस्य निशम्य वार्ताम् । तापापदेशेन धनजयस्य चित्त चुचुम्ब स्वसमानतेज ॥ ५५ ॥  वीर तनूजमनुचिन्य विलापभाज   धारालदृष्टियुगुल धरणौ लुठन्तम् ।  वाग्भिश्चिरेण वसुधाधिपसयुतस्त   विश्वभरोऽर्जुनमपि व्यदधादशोकम् ॥ ५६ ॥  इन्द्रात्मजस्तद्नु बाहुमुदस्य कोपा-   त्सिन्धूद्वहस्य समरे द्विषता समक्षम् ।  हेत्या श्व एव यदि तस्य शिरो न कुर्या   तस्या विशेयमहमित्यकरोत्प्रतिज्ञाम् ॥ ५७ ॥


सर्वस्य दुर्निमित्तस्य कि फल भविष्यतीत्युक्तप्रकारेण विचिन्तयन् आलोचयन सन्नेव राज्ञ युधिष्ठिरस्य धाम आवास विवेश । बिडौजस कुनार इत्यत्रापि योज्यम् । अत्रानेकक्रियायौगपद्यात्समुच्चय ॥ ५४ ॥

 तत्रेति । अत्र युधिष्ठिरावासप्रवेशानन्तरम् । तत्र युधिष्ठिरधामनि अश्रूणि नेत्रयो येषा तान् सर्वान् बन्धून् युधिष्ठिरादीन् निशाम्य निरीक्ष्य । पुत्रस्य अभिमन्यो वार्ता वधवृत्तान्त निशम्य श्रुत्वा । धनजयस्य अर्जुनस्य चित्त स्वेनात्मना समान नाम्ना त्य तेज अग्निम् । तापस्य पुत्रशोकसतापस्य अपदेशेन व्याजेन चुचुम्ब स्पृशति स्म । पुत्रशोकात्सतप्तोऽभूदित्यर्थ । अपवालकार ॥५५॥

 वीरमिति । वीरं असहायशूरं तनूज अभिमन्यु अनुचिन्य स्मृत्वा । विलाप परिदेवन भजतीति तद्भाज धाराल बाष्पधारापरीत दृष्ट्यो युगल यस्य तथोक्त धरणौ लुठन्त भुवि विवर्तमान त अर्जुनमपि । विश्वभर कृष्ण वसुधाधिपेन धर्मराजेन सयुत सन् । वाग्भि आपद्धर्याभि चिरेण । कृच्छ्रादित्यर्थ । अशोक निर्दु ख व्यदधात् चक्रे । विपूर्वाद्दवाते कर्तरि लड् । अत्र अर्जुन कुटजवृक्षमपि अशोक वञ्जुलवृक्ष व्यदधादिति विरोधस्य क्ष्लेषणा भासात् विरोधाभास ॥५६॥

 इन्द्रेति । तदनु कृष्णयुधिष्ठिराभ्यां आश्वासनानन्तर इन्द्रात्मज अर्जुन कोपात् बाहु उदस्य उद्यम्य । श्व परस्मिन् दिन एव । नतु प्रपरस्मिन्नित्यर्थ । तस्य पुत्रानुयायिभवन्निरोधेन द्रोहकारिण सिन्धूद्वहस्य सैन्धवस्य शिर समरे युद्धे द्विषता दुर्योधनादीना समक्ष हेत्या आयुधे न कुर्या यदि । तया न छिन्द्या चेदित्यर्थ । अह तस्या हेत्याम् । अग्निज्वालायामित्यर्थ । विशेय-


  1. 'तदाक्ष्रु' इति पाठ
  2. 'सूनोश्च' इति पाठ