पृष्ठम्:चम्पूभारतम्.pdf/३९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९७
दशम स्तबक ।


,

तत्र निहुतदिनेश्वर[१]दीप्तौ जृम्भिते तमसि धूलिमिषेण ।
खि[२]द्यते स्म युधि पाण्डवसेना हृ [३]ष्यति स्म सहसा कुरुसेना ॥ ६०॥
गाण्डीवमेतेन [४]मुहुर्विकृष्ट ह्नस्व च दीर्घ च बभूव युद्धे ।
तुळामिवर्णेन [५]तदाधिरोढु स्वनामधेयस्थितिशालिनेव ॥ ६१ ॥
अस्त गतश्चेदरविन्दबन्धुर्वन्ध्या भवेत्सोपि मदीयसधा ।
इतीव सक्रन्दननन्दनोऽसौ तदीयमार्ग रुरुधे शरौघे ॥ ६२ ॥
मृत्सगतेनौष्ठपुटेन भूभुक्सबन्धिता स्पष्टमिव ब्रुवाणै ।
धनजयोऽसौ शितभल्लकृत्तै शिरोभिराच्छादयति स्म धात्रीम् ॥६३॥
,


रथश्रेष्ठ विस्मयकरेण वेगेन उपलक्षित विरोधिसैन्ये शत्रुबले विष्वक् परित चचार । अत्रोपमया अकुतोरोधप्रतीतेरलकारेण वस्तुध्वनि ॥ ५९ ॥

 तत्रेति । तत्र तदानीं युधि निहुता आच्छादिता दिनेश्वरस्य सूर्यस्य दीप्ति प्रकाश येन तस्मिन् तमसि धूलिमिषेण जृम्भिते सति पाण्डवसेना खिद्यते स्म कुरुसेना हृष्यति स्म । सहसेत्युभयत्र योज्यम् । प्रतिज्ञाभङ्गादर्जुनोऽङ्गि प्रविशतीति तर्कादिति भाव । सागता ॥ ६० ॥

 गाण्डीवमिति । तदा तत्काले युद्धेऽपि एतेनार्जुनेन विकृष्ट आकृष्ट गाण्डी स्वस्य गाण्डीवस्य नामधेये गाण्डीवेति सज्ञाशब्दे स्थित्या शाल इति शालिना इवर्णन इकारेण तुला साम्य अधिरोढु प्राप्तुमिवेत्युत्प्रेक्षा । मुहु हृस्व अल्प च बभूव । दीर्घ आयत च बभूव । अर्जुनचापस्य गाण्डिव गाण्डीवमित्युभयथापि व्यवहारादिति भाव । अत्र सहितबाणगुणाकर्षणतद्विमोचनकृताल्पत्वायतत्वयो अक्षरवर्मह्नस्वदीर्घत्वयोश्च क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्तरुक्त्तोत्प्रे क्षासापेक्षत्वोक्त्या तथो प्रत्येकमङ्गाङ्गिभावेन सकरद्वयस्य समष्टि । गाण्ड्यजगासज्ञायाम्’ इति बप्रत्ययानुशासने ह्नस्वान्तदीर्घान्तयोस्तन्त्रेण निर्देश इत्युक्त्तम् । ‘कपिध्वजस्य गाण्डीवगाण्डिवौ पुनपुसके’ इत्यमरकोशश्च । ‘स्वनाममध्यस्थितिशालिनेव’ इति पाठान्तरम् ॥ ६१ ॥

 अस्तमिति । अरबिन्दबन्धु सूर्य अस्त अस्तमन गतक्ष्चेत् सा पूर्वोका मदीया सवा प्रतिज्ञापि वन्ध्या निष्फला भवेत् । इत्यालोच्येवेत्युल्प्रेक्षा । असौ सक्रन्दननन्दन अर्जुन शराणा ओधै समूहै तस्य सूर्यस्येम तदीय मार्ग रुरुधे निरुद्धवान् ॥ ६२ ॥

 मृदिति । असौ धनजय अर्जुन शितै तीक्ष्णै भल्लर्नाम बाणै कुत्तै छिन्नै । मृदा मृत्तिफया सगतेन ओष्ठयो ऊर्ध्वाधरयो पुटेन सपुटेन ।


  1. ‘दीपे’ इति पाठ
  2. खिधति’ इति पाठ
  3. ‘हृष्यते’ इति पाठ
  4. धनु ’ इति पाठ
  5. ‘सह’ इति पाठ