पृष्ठम्:चम्पूभारतम्.pdf/३९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
चम्पूभारते

,

वङ्क कङ्ककुळाभिष घृतविपल्लिङ्ग कलिङ्ग पुन-
 र्भोज भाजनमापदा यमपुरीसीमारुध मागधम् ।
चोल दु खनिचोलचित्तमिषुभि कुर्वन्सुपर्वा[१]विभू-
 पुत्रस्तत्र दिनावसानसमये रुन्धे स्म सिन्धूद्वहम् ॥ ६४ ॥
,

तत्रान्तरे ।

,

भूपस्तूत्तपमानधीर्भयभराज्जिज्ञासुरिन्द्रात्मभू-
 वार्ता सात्यक्रिमारुती रिपुचमूव्यूह प्रति प्राहिणोत् ।
तौ[२] जित्वा । गु[३]रुमातासिहनिनदौ सवीक्ष्य भूरिश्रवा
 राधेयश्च हठात्त[४]तो रुरुधतु संक्षोभयन्तौ कुरून् ॥ ६५ ॥


भुव भुनक्ति भक्षयति पालयति इति भूभुक् राजा तस्य सबन्धिता सबन्ध स्पष्ट यथा तथा ब्रुवाणै वदद्भिरिव स्थितैरित्युत्प्रेक्षा । शिरोभिर्वोत्री भुव आच्छा दयति स्म । भुक्छब्दस्योक्त्तोभयार्थतायाम् ‘भुज पालनाभ्यवहारयो’ इत्यनु शासनम् ॥ ६३ ॥

 वङ्कमिति । सुपर्वाधिभुव देवाधिपस्य पुत्र अजुन तत्र युद्धे इषुभि बाणै थङ्क वङ्कदेशाधिपतिम् । जनपदशब्द सर्वत्र तदधिपक्षत्रियवाची । कुर्वन्नित्यनु षङ्गश्च । कङ्ककुलस्य गृध्रपृन्दस्य आमिष भोग्यवस्तु । कलिङ्ग पुन धृत विपद मरणस्य लिङ्ग चिह्न ऊर्ध्वश्वासादि येन तथोक्त्तम् । भोज आपदा भाजन पात्रम् । मागध मग वदेशस्य सबन्धिनम् । ‘तस्येदम्' इत्यण् । यमपुर्या सीमा प्रदेश रुणद्धि प्राप्नोतीति तद्बधम् । चोल दु ख निचोल आच्छादन यस्य तादृश चित्त यस्य तथोक्त कुर्वन् । निचोल प्रच्छदपट’ इत्यमर । दिनावसानसमये सायकाले सिन्धूद्वह सैन्धव रुन्धे स्म निरुद्धवान् । ‘बङ्गम्’ इति पाठोऽनुप्रास भङ्गादुपेक्ष्य । शार्दूलविक्रीडितम् ॥ ६४ ॥

 तत्रान्तरे । अर्जुनयुद्धसमय इत्युत्तरेण सबन्ध ॥

 भूप इति । भयभरात् भयातिशयात् अर्जुनापायचिन्तनजन्यात् उत्तपमाना सतप्यमाना वी मन यस्य स । अतएव भूप युधिष्ठिरस्तु इन्द्रात्मभुव अर्जुनस्य वार्ता वृत्तान्त ज्ञातुमिच्छु जिज्ञासु सन् सात्यकि शैनेय मारुति भीम च उभौ रिपुचम्वा शत्रुसेनाया व्यूह प्रति प्राहिणोत् प्रेषितवान् । तत युधिष्ठिरप्रेषणाद्धेतो गुरु द्रोण व्यूहमुखस्थित जित्वा आत्त सिंहनिनद क्ष्वेलारव याभ्या तथोक्तौ कुरून् कौरवान् सम्यकू क्षोभयन्तौ तौ सात्यकिभीमौ सवीक्ष्य भूरिश्रवा राधेय कर्णश्च द्वौ हठात् बलात्कारान् रुरुधतु निरुद्धवन्तौ ।


  1. ‘वङ्ग’ इति पाठ
  2. ‘जित्वा तौ’ इति पाठ
  3. रिपु' इति पाठ
  4. ’उभौ’ इति पाठ