पृष्ठम्:चम्पूभारतम्.pdf/४००

एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
चम्पूभारते

भूरिश्रवास्तदनु पुत्रममु बलारे-
 र्भूयो विगर्ह्य पुरुषोत्तमसनिधाने ।
आचम्य पावनमसौ कुशमेक[१]मन्य-
 मास्तीर्य युद्धभुवि तत्र शयालुरासीत् ॥ ७० ॥

 तदनु हिडिम्बवैरी दिननायकतन[२]यसाहाय्यकेन भयानकसायकनिकायवर्षिणाममर्षिणा दर्पेण गरीयसा दु शासनयवीयसा विस[३]रमुज्जासयितु विद[४]लितविमतमदा निजगदामष्टाभि काष्ठामि स[५]ह भ्रमवाचकार ॥

,

गान्धारजाजठरसीम्नि पुराश्मदत्ता
 दत्त्वा दशा युधि गदा पवमानसूनो ।
दु शासनानुजकुलाय हि यौ[६]गपद्या
 च्चक्रे मिथोऽष्टनवति त्रिदशीस्तु यातृ ॥ ७१ ॥


समौ’ इत्यमर । अत्रैकस्य हस्तच्छेदेन सर्वेषा विहस्तत्ववर्णनादसगत्यलाकार क्ष्लेषानुप्राणित । रथोद्धता ॥ ६९ ॥

 भूरिश्रवा इति । तदनु हस्तच्छेदनानन्तर असौ भूरिश्रवा अमु अयेन युध्यमानस्य अधर्मेण हस्तच्छेदक बलारे इद्रस्य पुत्र अर्जुन पुरुषोत्तमस्य श्रीकृष्णस्य सनिधाने समीपे । त चापीत्यर्थे । भूय मुहुर्मुहु विगर्ह्य निन्दित्वा षावन पवित्र एक कुश जल आचम्य अन्य कुश दर्भ आस्तीर्य तत्र आस्तीर्णकुशे शयालु शयनशील आसीत् । प्रायोपवेश चक्र इत्यर्थ । ‘कुशो रामसुते दर्भे योत्र्के द्वीपे कुश जलम्' इत्यमर ॥ ७० ॥

 तदन्विति । तदनु हिडिम्बवैरी भीम दिननायकतनयस्य क्णस्य साहारयकेन साह्यकरणेन हेतुना दर्पेण गरीयसाम् । दुर्भराहकाराणमित्यर्थ । अतएव भयानक भयकर साथफनिकाय बाणपुञ्ज वर्षन्तीति वषिणा अमर्षिणा त्र्कुद्धाना दु शासनस्य यवीयसा अनुजाना विसर समूह उज्जासयितु हन्तुम्। ’उद्वासनप्रमथनक्रथनोज्जासनानि च' इत्यमर । ‘यवीयसामुज्जासयितुम्’ इत्येतावन्मात्रपाठे कर्मण शेषत्वविवक्षया षष्ठी । ‘न लोक-' इत्यादिना कृघोगषष्ठया एव निषेवात् । विदलित निरस्त विमताना शत्रूणा मद यया ता निजगदा अष्टाभि काष्ठाभि सह दिग्भि सह भ्रमयाचकार । साष्टदिग्भ्रमण भ्रामितवानित्यर्थ ।

 गान्धारजेति । पवमानसूनो भीमस्य गदा गान्धारजाया गन्धार्या


  1. ‘अयन’ इति पाठ
  2. ‘सुत’ इति पाठ
  3. विसरम्’ इति नास्ति कचित्
  4. ‘दलित’ इति पाठ
  5. ‘सम भ्रामयामास’ इति पाठ
  6. ‘यौगपद्या’ इति पाठ