पृष्ठम्:चम्पूभारतम्.pdf/४०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०१
दशम स्तबक ।


,

विहय विरथ विसारथिं विशरास विपताकिकापटम् ।
विशिखेन विवस्वत सुत विदधातिस्स वृकोदर क्षणात् ॥ ७२॥
अथान्यमा[१]स्थाय रथ क्षणेन कर्ण कुरूणा धुरि कार्मुकस्य ।
पूर्व गुणेनाशुगजातमेक पश्चाटन्याप्बपर निरास्थत् ॥ ७३ ॥
मारुतिस्तदनु सोमदत्तभूपादपासुपरिधूसरोरसा ।
कसमर्दनकनीयसा सम शक्रनन्दनसमीपमाप स ॥ ७४ ॥
,

तदनु दनुजपरिपन्थिनि श्री[२]कृष्णे निजशरपुञ्जेन कुरुकुञ्जरा-


जठरसीम्नि गर्भदेशे पुरा गर्भ धृत्वा चिरेणाप्यप्रसवसमये अश्मना पाषाणेन तद्धतधूतेन दत्ता कृता दशा अवस्थाम् । वेदनामिति यावत्। युधि दत्त्वा तावहु ख कृत्वा दु शासनस्य अनुजाना कुलाय वृन्दाय । क्रियाग्रहणाच्चतुर्थी । अष्टयुक्ता नवतिमिति शकपार्थिवादित्वात्समास । त्रिदशी अप्सरसस्तु मिथ अन्योन्य यातु सोदरभार्या यौगपद्याद्धि एककालमेव चक्रे । साष्टनवतिं धार्त राष्ट्रानवधीदित्यर्थ । ‘भार्यास्तु भ्रातृवर्गस्य यातर स्यु परस्परम्' इत्यमर । पुरा फिल गान्धारी वृत्वा गर्भ चिरादप्यप्रसवे अश्मना गर्भे ममाथेति भारती कथात्रानुसधेया ॥ ७१ ॥

 बिद्यमिति । वृकोदर भीम विशिखेन बाणैरिति जात्येकवचनम् । क्षणात् विवस्वत सूर्यस्य सुत कर्ण विगता हया अश्वा यस्य तथोक्त्त विरथ विसारथिं विशरास विगतवनुष विपताकिकापट विगतध्वजाशुक च विदधाति- स्म चक्रे ॥ ७२ ॥

 अथेति । अथ कर्ण क्षणेन अन्य रय आस्थाय अधिरह्य । ‘आसाद्य’ इति पाठान्तरम् । कुरूणा कौरवाणा वुरि ' समक्ष पूर्व प्रथम कार्मुकस्य गुणेन मौर्व्या एक आशुगजात बाणवृन्द निरास्थत् निर्गसयामास । पश्चात् कार्मुकस्य अटन्या कोट्या अपर आशुगजात वायुसभव भीममपि निरास्थत् निर्घूतवान् । ‘कोटिरस्याटनि ’, ‘आगौ वायुविशिखौ, ‘जात जात्योघजन्मसु’ इति सर्वत्रामरविश्वप्रकाशौ ॥ ७३ ॥

 मारुतिरिति । तदनु धनुष्कोट्या निर्घूय कर्णेन मोचनानन्तर स मारुति भीम सोमदत्तभुव भूरिश्रवस पादे पासुना रजसा आक्रमणलग्नेन परिधूसर मलिन उर यस्य तेन कसमर्देनस्य श्रीकृष्णस्य कनीयसा सम अनुजेन सात्य किना सह शक्रनन्दनस्य अजुनस्य समीप आप प्राप्तवान् । रथोद्धता ॥ ७४ ॥

 तदन्विति ।तदनु निजशराणा पुञ्जेन कुरकुञ्जरान् कौरवश्रेष्ठान् भञ्जयन्त छेदयन्त त धनजय अर्जुन प्रति सुतस्य अभिमन्यो वधेन कृत मन्तु अप


  1. ‘आसाथ’ इति पाठ
  2. श्रीकृष्णे निज’ इति नास्ति कचित्