पृष्ठम्:चम्पूभारतम्.pdf/४०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०१
चम्पूभारते


न्भञ्जयन्त धनजय त सुतवधेन कृतमन्तु रिपु निहन्तुमादिश्य दलितदै[१]त्यचक्रेण निजचक्रेण चण्डकरमण्डल[२]मपिदधाने गभस्तिमानस्तभहा[३]स्तेति समस्तनिजबलकोलाहलमाकर्ण्य दु शलाजानिर्मुदा नि[४]जवदनमुदासयत् ॥

,

तदा प्रकाशस्य दिवाकरस्य तिरोहितस्यापि जयद्रथस्य ।
अदर्शनायापि च दर्शनाय सुदर्शन हेतुरभून्मुरारे ॥ ७५ ॥
सकलमपि जगन्ति चक्रयूथ सवितुरर्शनत सखेदमाहु ।
समरभुवि कथ नु शौरिचक्र तपनतिरोभवन तदाचकाङ्क्षे ॥ ७६ ॥
तावत्किरीटी तरुणेन्दुमौलेर्वदान्यताकीर्तिवदावदेन ।
[५]रेण शत्रोरलुनीत शीर्ष साक प्रमोदेन स कौरवाणाम् ॥ ७७ ॥
,


राध येन त रिषु सैन्धव निहन्तु आदिश्य आज्ञाप्य दनुजाना दान घना परिपन्थिनि शत्रौ श्रीकृष्णे दलित छिन्न दैत्याना चक्र येन तेन चक्रेण चण्डकर मण्डल सूर्यबिम्ब अपिदधाने आच्छादयति सति गभस्तय किरणा अस्य सन्तीति गभस्तिमान् सूर्य अस्त अस्तमय अहास्त गतवान् । जहातेर्गत्यर्थकात् कर्तरि लुडि तडि सिच् । इत्युक्तप्रकार समस्तस्य निजबलस्य कोलाहल कलकल आकर्ण्य दु शला दुर्योधनसोदरी जाया भार्या यस्य स सेन्वव निज वदन मुदा सतोषेण गतमृतिभीतिजन्येन सह उदासयत् उन्नमितवान् ॥

 तदेति । तदा सैन्धवमुखोन्नमनसमये मुरारे श्रीकृष्णस्य सुदर्शन चक्र नेत्र च सुष्टु पश्यतीति सुदशन शोभनालोकन च प्रकाशस्य दीयमानस्य दिवाकरस्य सूर्यस्य अदर्शनायापि अप्रत्यक्षाय च तिरोहितस्य व्यूहाच्छादितस्यापि जयद्रयस्य सैन्धवस्य दशनाय च उभयस्या अपि हेतु कारण अभूत् । अत्र सूर्यप्रत्यक्षसामग्रीभूतनेत्रालोकनयो तदप्रत्यक्षहेतुत्चवर्णनाद्वयाघातालकार । एव प्रत्य क्षप्रतिबन्घकस्य तिरोधानस्य सत्त्वेऽयुक्तसामग्न्या सैन्दवप्रत्यक्षवर्णनातृतीयविभावनाभेदश्च । द्वयो क्ष्लेषानुप्राणितयो ससृष्टि । ‘स्याद्वयाघातोऽन्यथाकारि तथाकारि क्रियेत चेत्’ इति । ‘कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके' इति क्रमेण तदुभयलक्षणे ॥ ७५ ॥

 सकलमिति । जगन्ति लोका सकल चक्राणा चक्रवाकाना यूथ कुळमपि सवितु सूयस्य अदर्शनत अप्रत्यक्षात् सखेद सदु ख आहु । शौरे श्रीकृष्णस्य चक्रमेक तु तदा समरभुवि तपनस्य सूर्यस्य तिरोभवन अदर्शन कथ न्वित्याश्चर्ये । आचकाङ्क्षे कामयामास । क्ष्लेषानुप्राणितो विरोधाभास पुष्पिताग्रावृत्तम् ॥ ७६ ॥

 तावदिति । तावत् सैन्धववदनोन्मनक्षण एव स किरीटी अर्जुन ! तरु


  1. ‘आदिश्य निहतु' इति पाठ
  2. ’विदधाने’ इति पाठ
  3. ’आस्त’ इति पाठ
  4. ‘सह निजवदनमुढास’ इति पाठ
  5. ‘अस्त्रेण’ इति पाठ