पृष्ठम्:चम्पूभारतम्.pdf/४०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
'४०३
दशम स्तबक ।


,

वृद्धक्षत्राञ्जलौ साय नालमर्व्याय क धृतम् ।
[१]इतीव क सिन्धुभर्तुर्जिष्णुस्तस्मिन्न[२]पातयत् ॥ ७८ ॥
एतत्किमित्ययमपास्य सुतस्य शीर्ष
 शीर्यन्स्वमूर्धनि वरेण शशाङ्कमौले ।
क्षोण्यामवाड्युखतया निपपात वेगा-
 दाघ्रातुकाम इव तत्सुतवत्सलत्वात् ॥ ७९ ॥
,

 अथ तस्मिन्वासवसूनौ वासरविरामे शिबिरमेत्य यथावृत्त रणकथा विज्ञाप्य हृ [३]षितरोमाण राजानमुपतिष्ठमाने सुयोधनस्तु क्रोधनतया भगिनीजानिहानिनिदान[४]या सर्वामपि शर्वरी नियो[५]द्रधुकाम् सन्गम्भीरयुद्धारम्भभेरीनिध्वानमुजृम्भयामास ॥


णेन्दु बालचन्द्र मौलौ शिरसि यस्य तस्य सदाशिवस्य वदान्यतया दातृत्वेन या कीति तस्या वदावदेन वक्त्रा । तद्वत्तेनेति यावत् । ‘वदो वदावदो वक्ता’ इत्यमर । शरेण पाशुपतास्न्नाभिमन्त्रितबाणेन शत्रो पुत्रघातिन सैन्धवस्य शीर्ष शिर कौरवाणा प्रमोदेन साक सतोषेण सह अलुनीत चिच्छेद । लुनाते कर्तरि लड्। सहोक्यलकार ॥ ७७ ॥

 वृद्धक्षेत्रेति। साय सायकाले वृद्धक्षत्रस्य सैन्धवस्य पितु अञ्जलौ सपुटितकरद्वये अर्घ्याय अर्घ्य कर्तुम् । सवितुरिति शेष । धृत क जल नाल न पर्याप्त इत्यालोच्येवेत्युत्प्रेक्षा । सिन्धुभर्तु समुद्रस्य सैन्धवस्य च क जल शिरश्च तस्मिन् वृद्धक्षत्राञ्जलौ जिष्णु अर्जुन अपातयत् । ‘इतीव क सिन्धुभर्तु’ इत्येव पाठ । पाठान्तरे तु कमित्यनेन साकाङ्क्षतया साकङ्क्षत्वदोषापत्तिरिति ध्येयम् ॥ ७८ ॥

 एतदिति । अय घृद्धक्षत्र एतत् अञ्जळिस्थ शिर किम् । कुत आपतित इति जुगुप्सयन्निति शेष । सुतस्य शीर्षे सैन्धवशिर अपास्य भुवि निपात्य शशङ्कमौले सदाशिवस्य वरेण ‘य पातयेत्त्वत्सुतस्य शीर्ष पतेत्तेनैव सह तच्छिर’ इत्यात्मकेन स्वस्य मूर्धनि शिरसि शीर्यन् भिन्दन् सन् । सुते वत्सलत्वात् वात्स ल्यात् तत् सैन्धवशिर आघ्रातुकाम इवेत्युत्प्रेक्षा । अवाड्मुखतया अधोमुख- त्वेन क्षोण्या भुवि वेगात् निपपात । ‘नैवात्मनीनमथवा क्रियते मदान्धे’ इति प्रसिद्धेरिति भाव । पुरा वृद्धक्षत्र पाण्डवैर्वैरमनुचिन्त्य तपसाराधितेन शकरे णोक्त्तविध वरमवाप्य तद्विज्ञातृकृष्णचोदितकिरीटिप्रयुक्त्तपाशुपतास्त्रपातितपुत्रशिर पातनेन ममारेति भारती कथा ॥ ७९ ॥

 अथेति । अथ तस्मिन् तत्तादृक् सैन्धवहन्तरि वासवसूनौ अर्जुने वासरवि- रामे सायकाले शिबिरमेत्य रणकथा वृत्त निष्पन अनतिक्रम्य यथावृत्त विज्ञाप्य


  1. ‘इतीव सि धुराजस्य’ इति पाठ
  2. ’यपातयत्' इति पाठ
  3. ‘हृष्ट' इति पाठ
  4. निधननिदानतया इति पाठ
  5. ‘गम्भीर’ इति पाठ .