पृष्ठम्:चम्पूभारतम्.pdf/४०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
चम्पूभारते


 [१]ते तदा त समाकर्ण्य [२]समयवैज्ञानिका स्मरणमात्रकृतसनिधान निशि दशगुणितभुजबळावलम्ब हिडिम्बभागिनेय पृथक्प्रस्थाप्य स्वयमपि सकलान्यपि निजबलानि सनाह्य सयुगाय युगायतबाहव शक्रसुतादयो निश्चक्रमु ॥

,

या तारका मे सतत विरुद्धा ता बिभ्रतीमा इति बद्धरोषम् ।
सर्वेन्द्रिये सत्यपि सैनिकाना मार्ग दृशामेव तमो रुरोध ॥८०॥
 शर्वर्याश्चिकुरे मनोजशिखिनो धूमे नभोरण्यभू-
  जम्बूशाखिनि पेचकाण्डजदृशामालोकसिद्धाञ्जने ।
 चेले कालहलायुधस्य तमसामुज्जूम्भणे तादृशे-
  ऽप्यह्नीवाहवशिल्पमद्भुततम चक्रुर्द्वये सैनिका ॥ ८१ ॥
,


हृषितरोमाण आक्ष्चयात् सरोमाश्च राजान धर्मराज उपतिष्ठमाने स्तूयमाने सति । सुयोधनस्तु भगिनी जाया यस्य तस्य सैन्धवस्य हानि नाश निदान मुरयकारण यस्यास्तया क्रोधनतया अत्य तकोपेन हेतुना सर्वामपि शर्वरी रात्रि नियो द्धुकाम सन् गम्भीर युद्धारम्भे भेरीणा निध्वान झाकार उज्जृम्भयामास । रणो द्योगसूचनायेति भाव ॥

 एत इति । तदा तत्काले त भेरीनिध्वान समाकर्ण्य समये विज्ञान कालो चितकर्तव्यताबोध शील येपा ते समयवैज्ञानिका अतएव युग वृषभद्वयादि स्कन्धवाह्यतियग्दारुविशेष तद्वदायतौ बाहू येषा ते शक्रसुत अर्जुन आदिर्येषा तथोक्त्त एते पाण्डवा स्मरणेनैव स्मरणमात्रेण कृत सनिधान समीपस्थितियन त निशि रात्र्या दशगुणित दशधा आवृत्त भुजयो बल अवलम्ब सहायो यस्य त हिडिम्बभगिन्या हिडिम्ब्या अपत्य तद्भागिनेय घटोत्कच पृथक् प्रधानत्वेन प्रस्थाप्य रणाय प्रयोज्य सक्लानि बलानि सनाह्यापि उद्योजयित्वा च स्वयमपि सयुगाय युद्ध कर्तु निश्चक्रमु निष्कान्ता ॥

 येति । या तारका नक्षत्र इति जात्येकवचनम् । कनीनिका च । ‘कनीनिकरक्ष्योस्तारा’ इति रत्नमाला। तारैव तारका । अत एव ‘प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षु’ इति कालिदास । मे मम सतत सर्वस्यामपि रात्रौ न तु चन्द्रवत्पूर्वपक्ष एवेत्यर्थ । विरुद्धा प्रतिघातिनी ता तारका इमा दृश बिभ्रति इति हेतो बद्धरोषमिव स्थितमित्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्म्या । तम अन्धकार सर्वस्मिन्निन्द्रिये दृग्भिन्ने सत्यपि दृशा नेत्राणा तारकाधारिणा मार्गमेव रूरोव ॥ ८० ॥

 शर्वर्या इति । शर्वर्या रात्र्यङ्गनाया चिकुरे केशपाशे मनोजस्य मन्मथ


  1. ‘एतदाकण्य’ इति पाठ
  2. ‘समरवैज्ञानिक' इति पाठ