पृष्ठम्:चम्पूभारतम्.pdf/४०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०५
दशम स्तबक ।


,

प्रधनेऽभ्दुतेऽपि निशि नारददृष्टे प्रथमेतरा व्यलसदीतिरुदग्रा ।
वनिता अपि त्रिदशनाथन[१]गर्या वरणस्रज चिकुर एव बबन्धु ॥८२॥
 अमीषु युद्धदिवसेष्वयमेव हि कामुकं ।
 [२]रणोत्सवे विभज्यार्ध रात्रयेऽ[३]सौ ददौ यत ॥ ८३ ॥
तत क्षणादेव घटोत्कचोऽसौ सङ्ग्रामसीमोपरि नृम्भमाण ।
तमीमिमा सान्द्रतमा तमोभिर्दष्टाप्रभाभिर्दिवस वितेने ॥ ८४ ॥
,


स्यैव शिखिन वह धूमे नभस आकाशस्यैव अरण्यभुव जम्बूशाखिनि नील फले जम्बूक्षे पेचकाण्डजाना उलूकाना दृशा आलोकार्थ सर्ववस्तुदर्शनार्थ सिद्धा जने कालस्यैव हलायुधस्य बलरामस्य चेले नीलवस्त्रे तादृशे नैल्यसान्द्रत्वाभ्या अनुपमे तमसा उज्जुम्भणे प्रचारे सत्यपि अहि वासर इव द्वये सैनिका कौरवा पाण्डवाश्च अद्भुततम अत्याश्चयेकर आहवशिल्प युद्धचेष्टित चक्रे । ईर्ष्यावेशा दिति भाव अक्ष्लिष्ठमालापरम्परितरूपस्योपमया ससृष्टि । शार्दूलविक्रीडितम् ॥ ८१ ॥

 प्रधनेनि । निशि तमस्विन्या प्रधने युद्धे अभुदते सत्यपि नारदृष्टेरुदग्रा म हती, प्रथमेतरा द्वितीया ईति आनन्दबाष्पाना पृष्टि व्यलसत् । बभूवेत्यर्थ । ‘था निशा सर्वभूताना तस्या जागर्ति सयमी’इत्यागमाद्रात्रेर्योगिना समाधिकालत्वेन दर्शनप्रसक्त्तेरिति भाव । त्रिदशनाथनगर्या स्वर्गस्य सबन्धिन्य बनिता अप्सरसोऽपि वरणस्रज चिकुरे केशपाश एव बबन्धु । तदानी भोगकालत्वात्ता सामपि तघुद्धदर्शनाप्रसक्त्तेरिति भाव । केचित्तु अन्धकारनिरोधेन क्रमेण युद्धस्य नवसुराणा च दर्शनायोगादित्युभयत्र भावार्थमाहु । अत्र युद्धनैशत्वविशेषणस्य तद्गताश्चर्यतन्मतनवसुरदर्शनप्रतिबन्धकान्धकारावरणाभिप्रायगर्भात्परिकरालकार । पूर्वत्र तु योगभोगावसरत्वाभिप्रायगर्भत्सादयमिति ध्येयम् ॥ ८२ ॥

 अमीष्विति। अमीषु युद्धदिवसेषु । युद्धदिनाना मध्य इत्यर्थ । अय सैन्धवायुद्धदिवस एव कामुक स्त्रीपरायण । हि खल्वर्थे । यत कारणादसौ दिवस रणोत्सवे विभज्य विभाग कृत्वा अर्धसमाश रात्रये ददौ दत्तवान् । कामिना सर्वस्वहा नेरप्यगण्यवद्धर्मार्थकामेषु स्त्रीपुसयोरर्धफलभागित्वस्मरणाच्चेति भाव । अत्रोत्तरवाक्यार्थेन दिवसस्य कामुकत्वसमर्थनात्काव्यलिङ्गभेद । ‘रात्रयेऽसौ ददौ यत इत्येव पाठ । पाठान्तरे अपिशब्दस्य नैरर्थक्य अयमित्यनुषङ्गक्लेशवेति ध्येयम् ॥ ८३ ॥

 तत इति । तत असौ पाण्डवप्रस्थापित घटोत्कच क्षणादेव सङ्ग्रामसीम्न युद्धदेशस्य उपरि ऊर्ध्वभागे । आकाश इति यावत्। जृम्भमाण वर्तमान सन् तमोभि सान्द्रतमा इमा युद्धशालिनीं तमी रात्रिं दष्ट्राणा स्थूलायतदन्ताना प्रभाभि दिवस वितेने । निस्तमस्का चकारेत्यर्थ । अत्र तमोनीलाया रात्रेनैंल्यत्यागपूर्वक दष्ट्रप्रभाच्यापनवर्णनात्तद्गुणालकार ॥ ८४ ॥


  1. ‘नागर्या’ इति पाठ
  2. ‘रणोत्सव' इति पाठ
  3. ‘अपि' इति पाठ