पृष्ठम्:चम्पूभारतम्.pdf/४०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
चम्पूभारते

,

तिष्ठ द्रोण सुयोधन द्रुततरं धावस्व दु शासन
 त्वा मुञ्चामि किम  [१] घ भो कृप कृपालेशोऽपि न त्वत्कृते ।
गान्धाराधिप का कथा तव रणे दुर्मेधसामग्रणी
 कर्ण क्केति घटोत्कच, कटुरवो व्यभ्राम्यदभ्रान्तरे ॥ ८५ ॥
हैडिम्बेयमनु निजाट्टहसित क्षुभ्यद्दशाशामुख
 दष्ट्राङ्कूरकरालमात्तपरशु दृष्टै[२]व केचिद्भटा ।
बि[३]भ्युक्ष्चुक्रुशुरामिमीळुरवनौ पेतुर्मुमूर्छुर्जहु
 प्रणानारुरुहुर्विमानममरी[४]रापु प्रमोद दधु ॥ ८६ ॥
नभसि तमभिवीक्ष्य घोररूप दिशि दिशि तत्र पलायिते नृपौघे ।
 मरणसमयमुष्टिलग्नशत्रस्तदाभिमुख प्रययौ कबन्ध ए[५]क ॥ ८७ ॥
,


 तिष्ठेति । हे द्रोण, त्व तिष्ठ युद्धाय स्थिरो भवेत्यर्थ । हे सुयोधन, त्व द्रुततर अतिशीघ्र धावस्व पलायस्व । हे दु शासन, त्वामद्य मुञ्चामि किम्। न मुञ्चाम्येवेत्यर्थ । भो कृप हे शारद्वत त्वत्कृते भवद्विषये कृपालेश करुणालवोऽपि नास्ति । निहन्म्येवेत्यर्थ । गान्धाराधिप शकुने, तव रणे का कथा । युद्धे विषये त्व कियानित्यर्थं । दुर्मेधसा दुर्बुद्धीना अग्रणी कर्ण क्क कुत्रास्ते । इत्युक्त्तप्रकार क्डु कठोर रव यस्य तथोक्त सन् घटोत्कच अभ्रान्तरे अकाशमध्ये व्यभ्राम्यत् सचचार। शार्दूलविक्रीडितम् ॥ ८५ ॥

 हैडिम्बेयमिति । निजेन अह्हसितेन किलकिलार्भव्येन क्षुभ्यन्ति कम्प मानानि दशानामाशाना दिशा मुखानि यस्य त दष्ट्राङ्कूरै कराल भीषण आत्त गृहीत परशु कुठार येन त असु हिडिम्बाया अपत्य हैडिम्बेय घटोत्कच द्दष्ट्वैव। न तु युद्धेत्यर्थ । केचिद्भटा कौरवा बिभ्यु भीतवन्त । तत चुक्रुशु रुरुदु । तत आमिमीलु मम्रु । केचिद्भटा अवनौ पेतु । तत मुमूर्च्छु । तत प्राणान् जहु । केचिद्भटा विमान देवयान आरुरुहु । अपराहृत्य मृता इति भाव । अतएव अमरी देवाङ्गना आपु अतएव प्रमोद दधु । बिभेत्यादे सवत्र कर्तरि लिट्। अत्र केचिद्भटेषु कर्तृकारके भयमीलनाना केषुचित्पतनमूर्च्छनप्राणत्यागान केषुचिद्विमानारोहणदेवाङ्गनाप्राप्तिप्रमोदवहनाना च अनेकक्रियाणामन्वयात् कारकदीपकालकारत्रयम् विमानारोहणदेवाङ्गनाप्राप्त्यो प्रमोदवहनहेतुत्वात्काव्य लिङ्गभेदस्य तृतीयेन सहैकवाचकानुप्रवेशसकर । अस्य च प्रथमद्वितीययोश्च ससृ ष्टिरिति विवेक । पूववद्वृत्तम् ॥ ८६ ॥

 नभसीति । घोर भयकर रूप आकार यस्य तथोक्त्त त घटोत्कच नभसि


  1. ‘आर्थ’ इति पाठ
  2. ‘हसितै ’ इति पाठ
  3. ‘बिभ्युश्चक्षुरमी’ इति पाठ
  4. 'प्रापु ’ इति पाठ
  5. ‘एव' इति पाठ