पृष्ठम्:चम्पूभारतम्.pdf/४०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०७
दशम स्तबक ।


,

पितुश्च पुत्रस्य च वेदवाक्यैर्यदुक्त्तमैकात्म्यमिद हि दृष्टम् ।
भीमात्मजोऽ[१]पि स्वयमेष युद्धे भीमो यदासीदरिसैनिकानाम् ॥ ८८ ॥

 [२]भिण्डीवालैस्तोमरै शुळजालै-
  [३]र्वेषैरुग्रैश्चोभयेषा नृ[४]पाणाम् ।
 दृष्ट क्कापि काप्यदृष्टोऽरिसैन्य[५]
  व्योम्नि स्थित्वा नाम्नि शेष स चक्रे ॥ ८९ ॥

स्व[६]स्य क्षय नागमदद्य रात्रौ दुर्योधनस्य ध्वजिनीति मत्वा ।
पितृव्यभज्येव स भीमसूनुस्तत्रैव तस्या क्षयमाततान ॥ १०
 ,


आकाशे अभिवीक्ष्य नृपाणा कौरवाणा ओघे वृन्दे दिशि दिशि प्रतिदिश पलायिते सति तत्र युद्धदेशे मरणसमये सुष्टौ लग्न दृढधटित शस्त्र आयुव यस्य तथोक्त्त एक कबन्ध अपमूर्धक्लेवरमेव त घटोत्कच प्रति अभिमुख ययौ । नान्य कश्चिदपीत्यर्थ । अत्राभिमुखगमनस्य कबन्व एव नियमनापरिसंख्यालकार ॥ ८७ ॥

 पितुरिति । पितु जनकस्य च पुत्रस्य च दूयो । एक आत्मा खरूप ययोस्तयो भाव ऐकात्म्य नाम यद्वस्तु वेदवाक्यै ‘आत्मा वै पुत्रनामासि इत्यादिभि उक्त्त बोधित इद तत् पितृपुत्रयोरैकात्म्य दृष्ट हि । इदानीमिति' शेष । पुरा श्रुतिसिद्धम, इदानी तु प्रत्यक्षसिद्धमित्यर्थं । यत् यस्मात् एष घटोत्कच स्वय भीमात्मजोऽपि सन् युद्धे अरिसैनिकाना भीम भयकरक्ष्च आसीत् । तस्मादिति योज्यम् । क्ष्लेषानुप्राणित वाक्यार्थहेतुक काव्यलिङ्गम् ॥ ८८ ॥

 भिण्डीबालैरिति । स घटोत्कच उग्रै भिण्डीवालै तोमरै शूलाना जालै समूहै शूलादय आयुधविशेषा । वेषै आकारविशेषैश्च उपलक्षित व्योम्नि नभसि स्थित्वा उभयेषा विधाना नृपाणाम् । नृपैरित्यर्थ । कर्तृत्वस्य क्ष्लेषत्वविवक्षाया ‘आम शूद्रस्य पक्कानम्’ इत्यादाविव षष्ठी । क्कापि अदृष्टश्च सन् अरीणा सैन्य नाम्नि शेषम् । नाममात्रावशिष्टमित्यर्थ । चक्रे । सर्व जधानेति यावत् । शालिनी ॥ ८९ ॥

 स्वस्येति । दुर्योधनस्य ध्वजिनी सेना अघ अस्या रात्रौ स्वस्य आत्मन सबन्धिनं क्षय निवेश नागमत् न प्राप इत्युक्तप्रकारेण मत्वा ज्ञात्वा स भीमसूनु घटोत्कच पितृव्ये पितृभ्रातरि दुर्योधने भक्त्येवेत्युत्प्रेक्षा । तत्र युद्धदेश एव तस्या दुर्योधनध्वजिन्या क्षय निवेश नाश च आततान अकरोत् । ‘प्रलयावासयो क्षय ’ इति विश्व ॥ ९० ॥


  1. ‘हि’ इति पाठ
  2. ‘भि दीपालै ’ इति पाठ
  3. ‘वर्षे ' इति पाठ
  4. ‘नगानाम्’ इति पाठ
  5. ‘छित्वा नमशेष' इति पाठ
  6. ‘स्वस्वक्षय’ इति पाठ