पृष्ठम्:चम्पूभारतम्.pdf/४०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०९
दशम स्तबक ।


,

 सापि शक्तिरभिहत्य नराश सायुगीनजनसनुतशौर्यम् ।
 वायुसूनुपरिघादिव भीता वासवस्य सविध प्रतिपेदे ॥ ९३ ॥
,

 तदानीं [१]तत्र तेषा कौरवकौन्तेयसैन्याना बाष्पलहरीं नि[२]ष्पादयितु मोदविषादयोरहमहमिकया स्पर्धा समवर्धत ॥

 अथ जयद्रथघटोत्कचनिधनशोका[३]तिशयगुरून्द्वयानपि कुरूनाश्वासयितुमिव कु[४]लकूटस्थे कुमुदबान्धवे कुलिशायुधदिश[५]मेत्य काशनिकाशैरभीशुभि[६]राकाश [७]दिशावकाश [८]व्यकाशयमाने सति [९]कोपकुटिलीकृतचापौ वि[१०]राटद्रुपदभूपौ द्रुतमनीचैर्नाराचैराचार्य शललै [११]शल्यमृगमिव निबद्धतनुमातेनतु ॥


 सेति । सा इद्रदत्ता घटोत्कचप्राणापहारिण इति वा शक्तिरपि सायुगीनेन रणे साधुना जनेन शूरजनेन सनुत क्ष्लाघित शौर्य यस्य तथोक्त्त नराश राक्षस घटोत्कच अभिहस्य मारयित्वा वायुसूनो भीमस्य परिघात् गदाया भीतेवेत्यु- त्प्रेक्षा । वासवस्य इन्द्रस्य सविध समीप प्रतिपेदे प्राप्ता । स्वागता ॥ ९३ ॥

 तदानीमिति । तदानीं घटोत्कचवधकाले तत्र युद्धरङ्गे तेषा कौरवसैन्याना कौन्तेयमैन्याना च उभयेषा बाष्पस्य नेत्रजलस्य लहरीं प्रवाह निष्पादयितु जनयितु मोदस्य आनन्दस्य विषादस्य दु खस्य च द्वयो घटोत्कचवधजन्ययो स्पर्धा विवाद अहमहमिकया अह पूर्व जनयाम्यहमेच पूर्व जनयामीत्यहरेण उपल क्षिता समवर्धत वर्धते स्म । कौरवसैन्यानि मुमुदिरे, कौन्तेयसैन्यानि रुरुदुरित्यर्थ ।

 अथेति । अथ कुलस्य कौरवाणा पाण्डवाना च वशस्य कूटस्थे प्रथमे अत एव कुमुदबान्धवे चन्द्रे जयद्रथस्य सैन्वचस्य घटोत्कचस्य च निधनेन मरणेन य शोकातिशय तेन गुरून् दुर्भरान् द्वथानपि कुरून् वार्तराष्ट्रान् पाण्डवाश्च आश्वासयितुमिवेत्युत्प्रेक्षा । कुलिशायुधस्य इन्द्रस्य दिश प्राची एत्य प्राप्य काशै शरपुष्पै निकालै तुल्यै । तद्वद्वलैरित्यर्थ ।अभीशुभि निरणै आकाश दिशानामष्टाना च अवकाश अन्तराल व्यकाशयमाने प्रकाशयति सति । व्याड्पूर्वी त्काशतेर्णिजन्ताल्लटि शानच् । विराटभूपो द्रुपदभूपश्च द्वौ । कोपेन कुटिलीकृत गुणाकर्षणेन कुण्डलीकृत चाप याभ्या तथोक्तौ सन्तौ द्रुत अनीचै महद्भि नाराचै बाणविशेषै आचार्ये शल्य नाम मृग शललै तल्लोमभिरिव निबद्धतनु लग्नशरीरं आतेनतु चक्रतु । ‘श्ववितु शल्यस्तोम्नि शलली शलल शलम्' इत्युभयत्राप्यमर । उपमालकार । उत्प्रेक्ष्या ससृष्ट ॥०


  1. ‘सत्र' इति नास्ति कचित्
  2. ‘उत्पादयितुम्’ इति पाठ
  3. “अतिरेक इति पाठ
  4. ‘कुरु’ इति पाठ
  5. दिशा’ इति पाठ
  6. ‘आकाश’ इति पाठ
  7. ‘दशदिश’ इति पाठ
  8. ‘ब्याकोचमाने* इति पाठ
  9. ‘कोपेन' इति पाठ
  10. ‘द्रुपदविराट' इति पाठ
  11. ‘शलाल' इति पाठ