पृष्ठम्:चम्पूभारतम्.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीय: स्तबक: ।

 एकदा तु ते स  [१]र्वे सुपर्वसरित सलिलेषु वि[२]हृत्य समुत्तीणा वीचीमिरनीचीरुत्कूलितफेनकूटेष्विव पटगृह[३]वाटेषु परिगृहीतमनोहराम्बरपटीरहाराभ्यवहारा कुमारा कु[४]शलकुशीलवकुलशीलितविचित्रवादित्रकलशीरवविवशीकृतम[५]नस सुखमासामासु ।

रहसि नलिनतल्पे रत्नपर्यङ्कल्पे
 दिनविरतिसमीरै सेव्यमान स भीम ।
तटभुवि कुसुमाना तादृशैर्गन्धूपुरै-
 रधिकमलसताया हानिदद्रौ निदद्रौ ॥१॥


 'तीब्रोदयानविनयान्' (९१८३) इत्यत्र पूर्वस्तबके दुर्योधनाद्यसुहृदविनयाना प्रक्रान्तवात्तान्निविशेषतोऽस्मिन्प्रपञ्चयति--एकदेति । एकदा कदाचित् । तु शब्दो वाक्यालकारे । ते सर्वे राजकुमारा वार्तराष्ट्रा पाण्डवाश्च सुपर्वणा देवाना सरितो गङ्गाया सलिलेषु विहृत्य जलक्रीडा कृत्वा समुत्तीर्णास्तीर प्राप्ता सन्तोऽनीचीभिरुन्नताभिर्वीचीभिस्तरङ्गैरुत्कूलितेषु तीर प्रापितेषु फेनाना डिण्डीराणा कूटेषु राशिष्विव स्थितेष्वित्युत्प्रेक्षा । पटगृहाणा वाटेषु कक्ष्यान्तरेषु परित सर्वत्र गृहीता मनोहराश्चाम्बराणि वस्त्राणि, पटीराश्चन्दना , हारा मणि सरा अभ्यवहारा भोजनानि च यैस्तथोक्ताश्च सन्त कुशलाना शिक्षाभ्या साम्या निपुणाना कुशीलवा गायका । 'गायकास्तु कुशीलवा' इत्यमर । तेषा कुलेन द्वन्देन । 'कुशीलवबालक-' इति वा पाठान्तरम् । शीलिताना ताडिताना विचित्राणा वादित्राणा च चतुविधवाद्याना वीणावेणुमृदङ्गतालादीना कलशीना घटवाद्याना च रवैर्मधुरशब्दैविवशीकृत परवशीकृत मनो येषा तथोक्ताश्च सन्त सुख यया तथा आसामासुरवर्तन्त । 'दयायासश्च' इति कर्तरि लिय्या मन्तादसतेरस्तेरनुप्रयोग ॥

 रहसीति । स सुयोवनादिक्रोधपात्र भीमस्तादृशै । मनोज्ञैरित्यर्थ । कुसुमाना गन्धपूरै परिमलपरम्पराभि (करणे ) अलसताया श्रमस्याविक यथा तथा हानिं क्षतिं घन्ति खण्डयन्तीति हानिदा द्रवो वृक्षा यस्या तस्या तटभुवि गङ्गातीरे दिनविरतिसमीरै सायतनवायुभि सेव्यमान सन्' रहसि रत्नपर्यङ्ककल्पे मणिमञ्चतुल्ये। सादृश्ये कल्पप्प्रत्यय । नलिनतत्पे पद्मशग्याया निदद्रौ सुप्तवान् । निद्राते कर्तरि लिट् । मालिनीगृत्तम् ॥१॥


  1. 'सर्वेऽपि' इति पाठ
  2. चिर विहृत्य' इति पाठ
  3. 'वाटीषु' इति पाठ
  4. 'कुशलकुशीलवबालककुलपरिशीलित' इति पाठ
  5. 'मानसा' इति पाठ