पृष्ठम्:चम्पूभारतम्.pdf/४१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
चम्पूभारते

,

धृतराष्ट्रसुतोऽपि गेहमागा
 दिनदीपाङ्करदीनदीनदीप्ति ।
शकलीकृतबाहुँकर्ण[१]नासै
 सह योद्धे स घटोत्कचाश्मवर्षात् ॥ १०० ॥
,

इत्यनन्तभट्टकबिट्टतौ चम्पूभारते दशम स्तबक ।


 धृतराष्ट्रेति । स धृतराष्ट्रसुत दुर्योधनोऽपि दिने अह्नि दीपाङ्करस्येव दीना दीना द्रोणसैन्धवादित्रशोकेन अतिलाना दीप्ति कान्ति यस्य तथोक सन् घटोत्कचस्य सबन्धिन अश्मना पाषाणाना वर्षात् शकलीकृत खण्डित बाहू च कणौ च नासा च बाहुणनास येषा तै योधं सह गेह शिबिर प्रत्यागात् आगतवान् । औपच्छन्दसिकम् ॥ १०० ॥ इति श्रीसदाशिवपदारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरवकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याख्याने दशम स्तबकविवरण समाप्तम् ।


  1. ‘नासा ’ इति पाठ