पृष्ठम्:चम्पूभारतम्.pdf/४१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
एकादशः स्तबकः ।


,

 अन्येघुरब्धिमिलितैरसृगापगाना
  पूरैरिवोदयति पूषणि शोणिताङ्गे ।
 सेनाधिपत्यसरणौ धृतराष्ट्रसूनु
  कर्ण सुवर्णघटवारिमिरभ्यषिञ्चत् ॥ १ ॥
आभा[१]मतानीभिषेककाले तस्योपरिष्टात्तपनीयकुम्भ
आघ्रातुमात्मप्रभवोत्तमाङ्ग [२]समीपयातस्य सरोजबन्धो ॥ २ ॥
 दिड्यूलशैलकुहरेशयकेसरीन्द्र-
  सौखप्रसुप्तिकमहापटहारवेण ।
 कर्णो बलेन करनर्तीतकालपृष्ठो
  जन्यस्थलीमथ रथेन जवाज्जगाहे ॥ ३ ॥
,


 अन्येघुरिति । अन्येधु अप्धौ समुद्रे मिलितै प्रविष्टै असृगापगाना रक्तनदीनाम् । कुरपाण्डवसैन्यजन्यानामिति शेष । पूरै प्रवाहैरिवेत्युत्प्रेक्षा । शोणित अरुणीकृत अङ्ग बिम्ब यस्य तस्मिन् पूषणि सूर्ये उदयति सति । धृतरा ष्ट्रसूनु दुर्योधन कर्णे सेनाया आत्मीयाया आधिपत्यस्य सरणो । नायकत्व पद इत्यर्थे । सुवर्णघटेषु कनककुम्भेषु यानि वारीणि जलानि तै अभ्यषिञ्चत् । सेनापतिमकरोदित्यर्थ । वसन्ततिलका ॥ १ ॥

 आभामिति । तस्य कर्णस्य अभिषेककाले उपरिष्टात् शर्षोपरि तपनीयकुम्भ काञ्चनकलश आवजित इति शेष । आत्मप्रभवस्य निजपुत्रस्य उत्तमाङ्ग शिर आघ्रातु समीपयातस्य सनिधिभागतस्य सरोजाना पझाना बन्यो सूर्यस्य आभा शोभा अतानीतू विस्तारयामास । कर्णस्य सूर्यपुत्रत्वात्तदुत्सवे पुत्रवात्सल्यात्कर्णशीर्षाघ्राणाय समागतसूर्यत्वेन सुवर्णकुम्भ उत्प्रेक्षित । ततश्चाभाशब्द प्रकाशात्मकत्वेन बुद्धो लाक्षणिक इति ध्येयम् । न चात्र स च रराजेत्यर्थ इत्युपमा । तस्य शोभामिव शोभा दधाविति तत्सदृशधर्माक्षेपि निदर्शना वा तयोरभिषेक काल इत्यादिविशेषणवैयर्थ्यपराहलत्वादधिकमन्यत्रानुसधेयम् । अतानीदिति तनोतेलुडि च्ले सिचिवृद्धि । उपजाति ॥ २ ॥

 दिगिति । अथ अभिषेकानन्तर दिशा मूल आदि य शैल चक्रवाळ तस्य कुहरेशयाना गुहासु निद्राणाना केसरीन्द्राणा सिंहक्ष्रेष्ठाना सुख प्रसुप्त पृच्छतीति तथोक्त्त । तन्निद्राभञ्जक इति यावत् । महान् पटहाना वाद्यविशेषाणा आरव यस्य तथोक्त्तेन बलेन चतुरङ्गेणोपलक्षित कर्ण रथेन जवात् जन्य


  1. ‘आभात्तदानीम्' इति पाठ
  2. ‘समीपयातो व सरोजबन्धु ’ इति पाठ