पृष्ठम्:चम्पूभारतम्.pdf/४१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
चम्पूभारते


,

पुष्पप्रदानेन बु[१]धद्रुवर्गे श्रान्तेऽमराणा प्रथम वृतानाम् ।
हठेन कण्ठापहृत्य मालामवृण्वताभ्यग्रश्रसुरानमर्य ॥ १२ ॥
 तत्तादृश तरणिभूभुजचण्डिमान
  सवीक्ष्य सर्वरिपुद्दक्षु च भीतिभाक्षु ।
 आसीत्प्रमोपरि[२]मेदुरमेकमेव
  वामेतर रणतले वनमालिनेत्रम् ॥ १३ ॥
 रिक्ते पुष्यै सिद्धगन्धर्व[३]वर्गे
  मुक्त्वा मुक्त्वा मूर्धि वीरस्य तस्य ।
,


सूर्यबिम्बनिर्गमनशक्तिसबन्धेऽपि तदसबन्धोक्तिरूपातिशयोक्ते अग्रेसरत्खनिलि भ्पचाटुश्रुतिपुष्टदेहत्खरूपानेकपदाथहेतुक्काव्यलिङ्गोज्जीवितत्वाद्वयोरङ्गाङ्गिभावेन सकर । उपजातिभेद ॥ ११ ॥

 पुष्पेति । पुष्पाणा नूतनसुरवरणस्रजा प्रदानेन हेतुना बुधद्रूणा कल्पवृक्षाणा वर्गे पञ्चके श्रान्ते उपरते सति। पुष्पशन्ये सतीति यावत् । अमर्य अप्सरस प्रथम वृताना अमराणा नूतनसुराणा कण्ठात् माला पूर्व वरणे निक्षिप्त हठेन बलात्कारेण अपहृत्य आदाय अभ्यग्रसुरान् नूतनसुरान् अपृण्वत पृतवत्य । वृणोते कर्तरि लड्। ‘अतिपरिचयदोष कस्य नो हन्ति मान नबनवगुणरागी प्रायशो लोक एव । प्रथमदिवसचन्द्र सर्वलोकैकवन्द्य स तु सकलकलाभि पूर्णबिम्बोऽपि नार्ह ॥' इति न्यायादिति भाव । अत्र सुरतरूणा पुष्पशुन्यसबन्धेऽपि सबन्धोक्तिरूपाया सुराङ्गनाना प्रथमवृतामरकण्ठमालापहरणासबन्धेऽपि सबन्धोक्तिरूपायाक्ष्चतिशयोक्तेरङ्गाङ्गिभावेन सकर । तेन कर्णनिहता भटा असख्येया इति वस्तु प्रतीतेरलकारेण वस्तुध्वनि । उपजाति ॥ १२ ॥

 तत्तादृशमिति । स स इव तत्तादृश त तरणिभुव सूर्यपुत्रस्य भुजयो चण्डिमान प्रताप सम्यग्वीक्ष्य सर्वेषा रिपूणा इक्षु नेत्रेषु रणतले युद्धदेशे भीति भजन्तीति तद्भाक्षु सत्सु । चकारोऽप्यर्थ । एक वामेतर दक्षिण वनमालिन श्रीकृष्णस्वरूपिणो विष्णो नेत्र लोचन सूर्यश्च प्रमोदेन आनन्देन परित मेदुर पूर्णमेव आसीत् । अत्र कृष्णनेत्रस्य रिपुद्दगन्त पातिनोऽपि प्रमोदमेदुरत्वविरोधस्य सूर्यात्मत्वेनाभासीकरणाद्विगेवाभास । पुत्रोत्कर्षस्य पित्रानन्दकरत्वादित्यभिप्राय । वसन्ततिलका ॥ १३ ॥

 रिक्त इति । सिद्धाना गन्धर्वाणा च देवयोनिविशेषाणा वर्गे समूहे वीरस्य तस्य कर्णस्य भून्धि शिरसि मुक्त्वा मुक्ता पृष्ट्वा पृष्ट्वा। वीप्साया द्विर्भाव । अर्था


  1. “सुरद्रुवग’ इति पाठ
  2. ’त तादृश’ इति पाठ
  3. ‘सव्येतर’ इति पाठ ‘मुरये’ इति पाठ